SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाभ्याख्याविभूषितः तव = वीतरागस्य दानादिफलं भवपरम्परैवेतिरहस्यविदः, अतएव, हदासीनस्य = दानाऽऽदानादिसानुबन्धक्रियारहितस्य, निरनुबन्धकियस्येति यावत् । पादपीठेऽलुठत् = तव तादृशपुण्यानपेक्षतया तत्पुण्यं तव पादतलं सेवत इव । यो हि यदनपेक्षो भवति, से तस्य चरणं सेवत इति लाक्षणिको लौकिक: प्रयोगः । भगवतो निरनुबन्धक्रियतया मुक्तिरेव दासीभूतेति तत्र पुण्याऽनुबन्धिपुण्यस्य तच्चरणकैङ्कमप्यतिबहिति भावः । जगदुत्तममुकृतवान् भगवान् जगत्प्रभुरिति हृदयम् ॥५॥ __ प्रभुहि भीमकान्तगुणवान् भवतीति प्रतिपादयन् भगवतो वीतरागत्वं सर्वजगदुपकारकत्वं चाऽऽह रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोचैः साम्राज्यं साधितं त्वया ॥६॥ रागादिष्विति-भगवन् !, त्वया, रागादिषु-रागद्वेषादिषु, विषये, नृशंसेन-धातुकेन, " नृशंसो घातुकः क्रूर" इत्यमरः । थमन्यथा रागादिविनाशनं भवत इति भावः । एतेन वीतरागो भगवानिति प्रतिपादितम् । तथा, सर्वात्मसु = सर्वजीवेषु, कृपालुना=निर्हेतुकरुणावरुणालयेन, कथमन्यथा सर्वसावधविरत्युपदेशो भगवत इति भावः । अतएव, भीमकान्तगुणेन-भीमो भयापादकः कान्तः स्पृहणीयश्च गुणो यस्य, तादृशेन सता, नृशंसता भीमो गुणः, कृपालुता च कान्तो गुंणः । यद्वा नृशंसता Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy