________________
१००
श्रीवीतरागस्तवे एकादशः प्रकाशः
इति । काऽपि = अद्भुता । कथमन्यथा लोकप्रसिद्धोपायं विनैव प्रभुत्वम् ? । आदानप्रदानादिकं विनैव भगवतः प्रभुत्वमिति विलक्षणं माहात्म्यम् । न राजादिवत्प्रभु भगवान्, किन्तु लोकोत्तरगुणापेक्षमलौकिकं प्रभुत्वं तस्येति भावः ॥ ४ ॥
प्रभुत्वं सुकृतफलमिति जगदधिकसुकृतमपि भगवतो माहात्म्यमित्याह -
,
यस्यापि दानेन सुकृतं नाऽर्जितं परैः । उदासीनस्य तन्नाथ ! पादपीठे तवाऽलुठत् ॥ ५ ॥ यदिति – नाथ !, यत् सुकृतम् - पुण्यम्, " स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृष " इत्यमरः । परैः = बौद्धादिभिः, देहस्य = स्वदेहस्याऽपि, आदिना देहदानस्याऽन्यदानाऽपेक्षया दुष्करत्वं सूच्यते । नहि जीवस्य देहादधिकं किमपि रक्षणीयं प्रियं च भवतीति भावः । दानेन समर्पणेन कृत्वा, अत्र कस्यचि - द्वौद्धस्य सिंह क्षुत्पीडितायै तद्दुःखनिवारणमनसः करुणार्द्रस्य स्वदेहदानकथाSनुसन्धेया । न अर्जितम् = सञ्चितम् । यथा जगस्प्रभुत्वभवविच्छेदादिकं भवेत्तथा पुण्यं नार्जितम् दानस्याsविशुद्धत्वात् । शरीरस्य नानाकृमिकुलाकुलत्वात् । दानं हि तदेव प्रशस्यते, येन सर्वेषामुपकारो भवतु मा वा, अपकारस्तु कस्याऽपि मा भूत् । किञ्च दानं पुण्यानुबन्धि, न तु निरनुबन्धं कर्मेति भावः । तत् = तादृशम् जगत्प्रभुत्वादिफलं सुकृतम् ।
,
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org