________________
कतिकलव्याख्याविभूषितः
साध्यसाधनदक्षता, काऽपि लोकविलक्षणा । फथमन्यथा तादृशोऽपि सन् लोकं जयति । उक्तप्रकारेण लोकजयचातुरी वीतरागसहशानां महतामेव, नाऽन्येषामिति सा लोकविलक्षणा । निरवद्यो निरीहश्च भगवानेवेति लोकाधिकं माहात्म्यं भगवत इति भावः ॥ ३ ॥
लोकजयाच्च प्रभुत्वमयत्नसिद्धमित्याहदत्तं न किञ्चित्कस्मैचिन्नाऽऽत्तं किश्चित्कुतश्चन । प्रभुत्वं ते तथाऽप्येतत् कला काऽपि विपश्चिताम् ॥४॥
दत्तमिति- भगवन् !, त्वया, कस्मैचित् , किश्चिद् = धनधान्यादिकम् , न दत्तम् । निष्परिग्रहत्वेनाकिञ्चनत्वादिति भावः । ननु यो ददाति स एव प्रभुरिति न नियमः, करादिग्रहीता हि प्रभुलॊके कथ्यते इति चेत्तत्राह-कुतश्चन, किञ्चित् करादिकम् , न, आत्तम्-गृहीतम् , निरीहत्वादिति भावः । तथापि आदान प्रदानयोरभावेऽपि, ते-तव, प्रभुत्वम्-ईश्वरत्वम् । अस्तीति शेषः । अतिशयादिना तस्य सिद्धत्वादिति भावः । यद्वा लोकजयाल्लो. कप्रभुत्वमयत्नसिद्धं नाऽऽदानप्रदाने अपेक्षते । "प्रभुत्तेश्वरी विभुः" (अ. चि० ३।३५९।) इति । अत्राऽर्थान्तरन्यासमाहविपश्चिताम-सङ्ख्यावताम् , "व्यक्तो विपश्चित्सङ्ख्यावान् । (अ. चि. ।३।३४२।) इति । कला-शिल्पम् , विधिपटुतेति पवित् । “शिल्पं कला विज्ञानं च" (अ. चि. ३९००1)
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org