________________
श्रीवीतरागस्तवे एकादशः प्रकाशः
वानिति तन्माहास्यमलौकिकम् । शमी वीतरागो मुक्तश्चेलि कृतार्थो भगवानिति हृदयम् ॥२॥
यतश्च तादृशोऽतो लोकाधिको भगवानित्याहसर्वथा निर्जिगीषण भीतभीतेन चाऽऽगसः । त्वया जगत्त्रयं जिग्ये महतां काऽपि चातुरी ॥३॥
सर्वदेति-भगवन् !, त्वया, सर्वथा सर्वैः प्रकारैः, गुणादिना बलादिना वा, निर्जिगीषण-जेतुमिच्छा जिगीषा, तस्या निर्मतो रहितः, स तादृशो निर्जिगीषः, तेन सता, वीतरागत्वादिति भावः । नहि रागं विना जिगीषा सम्भवति । ननु निर्भयत्वादविजिगीष: स्यात् . भयहेतुं हि लोको जेतुमिच्छतीति
चेत्तत्राह-आगस: अपराधात् , पापादिति यावत् । “ आगोड़पराधो मन्तुश्चे" त्यमरः । भीतभीतेन-नित्यं भीतेन सत्ता, चा समुच्चये । यो छपराधाद्विभेति, स न कदाप्यपराधं करोतीति निरवद्यो भगवानिति भावः । जगत्त्रयम् , जिग्ये-अधरीकृतम् । योहि जितो भवति, स जेतु नो भवति । भगवांश्चाऽपराधभीतो निरीहश्च । न च तादृशोऽपरो लोके इति जगत्त्रयं भगवतो हीनम् , भगवांश्च लोकाधिकः इति भगवतो लोकाधिकं माहात्म्यम् । अत्र यो न जिगीषुरपि तु भीतः, तस्य न जगत्प्रयजय इति विरोधः । अविरोधस्तुक्त एव । लोकजयस्यैष प्रकारो लोकविलक्षण इत्यर्थान्तरन्यासेनाह-महताम् , चातुरी
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org