________________
कीर्तिकलाव्याख्याविभूषितः
रक्तः, वीतराग इत्यर्थः । अत एव, मुक्तिम्-
कार्येन कर्मक्षयलक्षणं मोक्षम् , भुक्तवान-प्राप्तवान् । नहि रागिणो मुक्तिः, रागस्य कर्मोपचयहेतुत्वात् । अत्र रागं विना न भोग इति विरोधः । नीरागस्य मुक्तिप्राप्तिरित्यविरोधः । ननु मा भूद्रागः, नहि रागाभाव एव मुक्तिप्रयोजकः, किन्तु द्वेषाभावोऽपि, तदाहअद्विष्टः द्वेषरहितः, अत एव, द्विषः कषायादीन् श्रेयःप्रतिपन्थिभूतत्वादरितुल्यान् , हतवान् नाशितवान् । शमवतो न रागद्वेषौ, तथा सति शम एव न स्यात् । रागद्वेषयोस्तृष्णामूलत्वात् । शमस्य च तृष्णाक्षयरूपत्वात् । एवञ्च शमाद्रागद्वेष. जयस्ततश्च मुक्तिः । अत्र यो द्वेषरहितः, स न द्विषो हन्तीति विरोधः । द्वेषाभावाच्च तन्मूलानां कषायादीनामभावरूपो वध इत्यविरोधः । यश्च भोगी वधकश्च तस्य न मुक्तिरिति विरोध:, मुक्तिप्राप्तिरेव भोगः, कषायादीनामभाव एव तद्वध इत्यविरोधः । ननु रागद्वेषजयो न सुकर इत्यतोऽर्थान्तरन्यासेन तत्समर्थयन्नाह-अहो ! महदाश्चर्यमेतद् , यत् , महात्मनाम् उत्तमोत्तमानाम् , लोकदुर्लभ: लोकैरप्राप्यः, अतएव, कोपि अनिर्वचनीयः, लोकैर्हि लौकिकोऽर्थो निरुच्यत इति भावः । महिमा माहा. स्यम् , महानुभावतेत्यर्थः । तादृशानिर्वचनीयमाहास्यादेव भगवतो रागद्वेषजयः सुसाध्यः । कथमन्यथा सर्वस्यैव न स इति भावः । शमो रागद्वेषजयश्चाऽलौकिकाऽऽत्मसामर्थ्यसाध्यः, तादृशश्च भगः
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org