________________
९६
श्रीवीतरागस्तवे एकादशः प्रकाशः
"
"
तथा परीषहाऽसहने संयमविलोप इति बोध्यम् । तथा, उपसर्गान् = देवादिकृतोपद्रवान्, “उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उप द्रवः " ( अ. चि० |२| १२५ ) इति । श्रूयन्ते हि पार्श्वादि जिनानां कमठादिकृता उपसगी इति भावः । प्रतिक्षिपन् = निरस्तमिव कुर्वन् । असाधारणदृढमहासत्त्वतया स्वस्य तैः क्षोभ लेशस्याऽप्यभावादुपसर्गीणां क्षोभचिकीर्षयाऽपचिकीर्षया वा कृतान निष्फलत्वादिति भावः । नन्वेतत्सर्वं किमर्थमित्यपेक्षायामाह - शमसौ. हित्यम् - तृष्णाक्षयजन्यं परमानन्दम् प्राप्तोऽसि नहि परिषहोप सर्गजयं विना शमलाभ इति भावः । अर्थान्तरन्यासेनैतत्समर्थय न्नाह - महताम् = उत्तमोत्तमानां षष्ठप्रकृतिकानाम्, वैदुषी = धनोपायज्ञता, काऽपि = लोकविलक्षणा । नाल्पसत्त्वो ऽधीरोऽल्प वा तथाकृत्वा शमसौहित्यं प्राप्तुं जानाति, शक्नोति वा शमसौहित्यं तेन प्रकारेणैव प्राप्यत इति भवादृशो महान्त एवं जानन्ति तत्प्राप्नुवन्ति च । तदेतद्भवन्माहात्म्यं लोकोत्तरमिति भावः । अत्र घातक्षेपप्रवृत्तस्य न शम इति विरोधः । परी होपसर्ग घातक्षेपजन्यशमसौहित्यवानित्यंविरोधः ॥ १ ॥
-साध्यसा
उक्तोपायप्राप्तशमफलं भङ्गयाऽऽहअरक्तो भुक्तवान् मुक्तिमद्विष्टो हतवान् द्विषः । अहो ! महात्मनां कोsपि महिमा लोकदुर्लभः ॥२ अरक्त इति - वीतराग !, भवान् । अरक्तः = विषयदि
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org