________________
कीर्तिकलाव्याख्याविभूषितः
षामद्भुतानां यो निधिराकरस्तस्येशाय; सर्वेषामद्भुतानां त्वमीश इति तस्मै, तुभ्यम् भगवते भगवानित्यन्वर्थविशेषणविशिष्टाय, नमः । अस्त्वितिशेषः । नमस्कार एवाऽस्माकं शक्यः, न तु तवाद्भुतगुणवर्णनमिति भावः ॥ ८ ॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायां दशमः प्रकाशः ॥ १० ॥
एकादशः प्रकाशः
सम्प्रति माहात्म्यं वर्णयन् वीतरागं स्तौतिनिघ्नन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां कापि वैदुषी ॥१॥
निघ्नन्निति-चीतराग !, परीपहचमूम् परितः सर्वतः कायेन मनसा वाचा च सह्यन्त इति परीषहाः क्षुदादयो द्वाविंशतिः प्रसिद्धाः, तेषां च चक्रम् , परीषहसमूहमिति यावत् । “वरूथिनी चमूश्चक्रम् " (अ. चि० ।३।७४६।) इति । निछनन् सहनेन कृत्वा हतमिव कुर्वन् । यथा हि निहननेन परसैन्यविनाशस्तथा सहनेन परीषहाणां विनाश एव भवति, तत्फलस्याऽस्वस्थताया अनुत्पादात् । परीषहाणां चमूत्वं च विनाश्यत्वसाधासमुदायरूपत्वाच्च । किञ्च परसैन्याहनने स्वस्य पराजयादिसम्भवः,
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org