________________
श्रीवीतरागत कादशः अकाराः
गुणः सामान्यतो भीमोऽपि कान्तः, रागादिविषयत्वाच्छ्योनिमित त्वात् । कृपालुतागुणश्च सामान्यतः कान्तोऽपि सर्वात्मविषयत्व
दुष्करत्वाद्भीमः । एवं च भीमश्चासौ कान्तश्च, स तादृशो गुमो यस्य, तेन तादृशेन सतेत्यर्थः । एतच्चाऽपि माहात्म्यं भगवतो यद्यदेव भीमः स एव कान्तोऽपीति । अन्यत्र भीमस्य कान्तस्य च गुणस्य पार्थक्येनैवोपलब्धेरिति ध्येयम् । उच्चैः सर्वोत्कृष्टम् , साम्राज्यम् प्रभुत्वम् , त्रिजगत्प्रभुत्वमिति यावत् । न झन्यस्य तादृशं साम्राज्यमितिभगवतस्तदुच्चैरेव भक्तीति भावः । यो हि रागादिप्रणयी, अतएव व्यक्तिविशेष एव कृपालुश्च, तस्य न कदापि तादृशं साम्राज्यमपि । यो हि वीतरागः स एव सर्वात्मर कृपालुश्च भवितुमर्हति । तादृशश्च भगवानेवेति भगवतो महन्माहास्यमिति हृदयम् ॥ ६ ॥
नन्वेतावता वीतरागे सर्व गुणा एव, दोषाःपुनरन्यत्रैवेत्यायातम् , एतच्चातिबहितिचेदेवमेतदित्याह
सर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः ।। स्तुतिस्तवेयं चेन्मिथ्या तत्प्रमाण सभासदः ॥२॥
सर्वेइति --अन्येषु = बौद्धादिषु, सर्वात्मना = सर्वप्रकारेण, सर्वे-रागादयः, दोषाः भवपरम्परादिदूषणनिमित्तानि, सन्तीतिशेषः । पुनरिति विशेषे, तदेवाह-त्वयि-भगवति भवति वीतरागे, गुणाःजगदुपकारित्वविरक्तत्वादयो गुणपदवाच्याः, निरनुबन्धत्वादिति भावः । सर्वे सर्वात्मनेति सम्बध्यते, सन्तीति शेषः । ननु सर्वः स्वमुत्कृष्ट कथ
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org