________________
३८४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-मुण्डितेन केवलं केशलोचेनैव न श्रमणो निर्ग्रन्थो न, ॐकारेणेति 'ॐ भूर्भुवःस्वः' इत्यादिना ब्राह्मणो न स्यात् , न मुनिररण्यवासेन, न कुशमयं चीवरं वल्कलं तेन तापसः ॥३१।। कथममी स्युरित्याह
समयाए समणो होइ, बंभचेरेण बंभणो ।
नाणेण उ मुणी होइ, तवेण होइ तावसो ॥३२॥ व्याख्या-समतया रागद्वेषाऽभावरूपया श्रमणो भवति, तथा ब्रह्मचर्येण ब्रह्म प्रागुक्ताऽहिंसादिरूपं, तस्य चर्यं चरणं तेन ब्राह्मणो भवति । तथा च "द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च",[ ] यतः-"शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति"[ ] इत्यादि । तु पुनर्ज्ञानेन मुनियोपादेयविधिज्ञो भवति । तथैव तपसा तापसो द्वादशविधतपोऽनुष्ठाता भवति ॥३२॥ नन्वर्थवत्त्वं नाम्नो हेतुरुतान्यथाऽपि डित्थादिवदित्याह
कम्मुणा बंभणो होइ, खत्तिओ होइ कम्मणा ।
वइस्सो कम्मुणा होइ, सुद्दो हवइ कम्मुणा ॥३३॥ व्याख्या-कर्मणा क्रियया ब्राह्मणो भवति । यथा
क्षमा दानं दमो ध्यानं, सत्यं शौचं धृति ( दया घृणा ।
ज्ञानविज्ञानमास्तिक्य-मेतद् ब्राह्मणलक्षणम् ॥१॥ [ ] तथा कर्मणा क्षतत्राणलक्षणेन क्षत्रियो भवति । कृषिपशुपाल्यादिकर्मणा वैश्यो भवति । शोचनादिहेतुप्रैषादिकर्मणा च शूद्रो भवति । ब्राह्मणप्रक्रमे शेषाभिधानं व्याप्तिदर्शनार्थं । भवन्मतेऽप्युक्तम्
एकवर्णमिदं सर्वं, पूर्वमासीद्युधिष्ठिर ! ।
क्रियाकर्मविभेदेन, चातुर्वण्यं व्यवस्थितम् ॥१॥[ ] ॥३३॥ किमिदं स्वबुद्ध्यैवोच्यते ? इत्याह
एए पाउकरे बुद्धे, जहिं होइ सिणायए ।
सव्वकम्मविणिमुक्कं, तं वयं बूम माहणं ॥३४॥ व्याख्या-एतान् प्रागुक्तानहिंसाद्यर्थान् प्रादुरकार्षीद्बुद्धो ज्ञाततत्वः श्रीवीरः, (पाठान्तरे-'एए पाउकरा धम्मा' प्रादुःकरा नैर्मल्यकारितयाऽात्मनः प्रकाशहेतवो धर्माः)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org