SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ३८३ पञ्चविंशं यज्ञीयाध्ययनम् जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहि, तं वयं बूम माहणं ॥२७॥ व्याख्या-यथा पद्मं जले जातं तत्त्यागादूर्ध्वस्थितेश्च वारिणा नोपलिप्यते, एवं पद्मवदलिप्तः कामैस्तत्र जन्मादिप्राप्तोऽपि, तं वयं ब्राह्मणं ब्रूमः ॥ यदुक्तमारण्यके यदा सर्वं परित्यज्य, निःसंगो निःपरिग्रहः । निश्चिन्तश्च चरेद्धम, ब्रह्म सम्पद्यते तदा ॥१॥[ ] ॥२७॥ एवं मूलगुणैरुक्त्वा अथोत्तरगुणैस्तमाह अलोलुयं मुहाजीविं, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं बूम माहणं ॥२८॥ व्याख्या-अलोलुपमाहारादिष्वलम्पटं, मुग्धाजीविनं मुग्ध इवोञ्छमात्रवृत्ति, अनगारमकिञ्चनमसंसक्तमसम्बद्धं गृहस्थैरिति पिण्डविशुद्धिरुक्ता, तं वयं ब्राह्मणं ब्रूमः ।।२८।। जहित्ता पुव्वसंजोगं, नाइसंगे य बंधवे । जो ण सज्जइ एएसु, तं वयं बूम माहणं ॥२९॥ व्याख्या-पूर्वसंयोगं मात्रादिसम्बन्धं, च पुनर्जातिसङ्गान् श्वश्वादिसम्बन्धाश्च बान्धवान् भ्रात्रादीन् त्यक्त्वा, एतेषु पुनर्यो न सजति रज्यते तं वयं ब्राह्मणं ब्रूमः ॥२९॥ वेदाध्ययनयजनकृदेव पात्रं ब्राह्मणो न तु त्वयोक्त इत्याशङ्क्याह पसुबंधा सव्ववेया य, जटुं च पावकम्मुणा । ण तं तायइ दुस्सीलं, कम्माणि बलवंतिह ॥३०॥ व्याख्या-पशूनां बन्धो विनाशाय नियमनं यैर्हेतुभिस्तेऽमी पशुबन्धाः, "श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम:'' [ ] इत्यादिवाक्योपलक्षिताः सर्वे वेदाः, तथा इष्टं यजनं, चः समुच्चये, पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेन, न नैव तं वेदाध्यातारं यष्टारं वा त्रायन्ते भवात् , दुःशीलं हिंसादिप्रवर्त्तनेन दुराचारं, यतः कर्माणि बलवन्ति दुर्गतिनयनं प्रति, इह वेदाध्ययने यजने च हिंसास्ति, अतो नैतद्योगाद् ब्राह्मणः पात्रभूतः, किन्तूक्तगुण एव ॥३०॥ अन्यच्च न वि मुंडिएण समणो, न ॐकारेण बंभणो । न मुणी रण्णवासेण, न कुसचीरेण तावसो ॥३१॥ ___ JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy