SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशं यज्ञीयाध्ययनम् ३८५ यैर्भवति स्नातकः केवली, सुब्व्यत्ययात् सर्वकर्मविनिर्मुक्तः, तमित्युक्तगुणं तत्वतः स्नातकं वा वयं ब्रूमो ब्राह्मणम् ||३४|| अथोपसंहरति एवं गुणसमाउत्ता, जे भवंति दियुत्तमा । ते समत्था उद्धत्तुं परं अप्पाणमेव य ॥ ३५ ॥ व्याख्या- एवं गुणैरहिंसाद्यैः समायुक्ता ये भवन्ति द्विजोत्तमाः, ते परमात्मानं चैवोद्धर्त्तुं संसारपङ्कान्निष्कासयितुं मुक्तिपदे स्थापयितुमिति यावत् समर्थाः ||३५|| इत्युक्त्वा स्थिते मुनौ - एवं तु संसए छिन्ने, विजयघोसे य माहणो । समादाय तओ तं तु, जयघोसं महामुणि ॥३६॥ 7 व्याख्या - तुरलङ्कारे, एवं पूर्वोक्तप्रकारेण संशये छिन्ने सति विजयघोषनामा स ब्राह्मणः 'समादाय' आर्षत्वात् सम्यगवधार्य, ततः संशयच्छेदानन्तरं तं तुः पूर्तौ (पाठान्तरे—'संजाणंतो तओ तं तु' ततस्तं तु सम्यगुपलक्षयन् यथैष मम भ्रातेति, एष एव च महामुनिरिति ) जयघोषं महामुनिं प्रति ॥ ३६॥ तु य विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभूयं, सुट्टु मे उवदंसियं ॥३७॥ व्याख्या - तुष्टश्चः पूर्ती विजयघोष इदमुदाहरति कृताञ्जलिः, ब्राह्मणत्वं यथाभूतं यथावस्थितं सुष्ठु शोभनं यथा स्यादेवं मे त्वयोपदर्शितम् ||३७|| किञ्च तुब्भे जड़या जन्नाणं, तुब्भे वेयविओ विऊ । जो संगविऊ तुब्भे, तुब्भे धम्माण पारगा ॥ ३८ ॥ व्याख्या - यूयं यष्टारो यज्ञानां यूयं वेदविज्ञा विद्वांसः, ज्योतिषाङ्गविदो यूयं, यूयं धर्माणां सदाचाराणां पारगाः ||३८|| तुब्भे समत्था उद्वत्तुं परं अप्पाणमेव य । तमणुहं करेह म्हं, भिक्खेणं भिक्खुउत्तमा ॥३९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy