________________
३८६
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-यूयमेव परमात्मानं चोद्धर्तुं समर्थाः, तत्तस्मादनुग्रहं भिक्षाग्रहणेनोपकारं कुरुताऽस्माकं हे भिक्षूत्तम ! हे तपस्विश्रेष्ठ ! णमलङ्कारे ॥३९॥
एवं ब्राह्मणोक्तो मुनि:
न कज्जं मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया ।
मा भमिहि भयावत्ते, घोरे संसारसागरे ॥४०॥ व्याख्या हे द्विज ! न कार्यं मम भिक्षया, क्षिप्रं निःक्रम ! प्रव्रज ! मा भ्रमी: ! यद्वा मा भ्रमिष्यसि, भयावर्ते भयानि इहलोकभयादीनि तान्येवावर्त्ता भ्रमर्यो यस्मिन् , एवंविधे घोरे भीषणे संसारसागरे ॥४०॥
उवलेवो होइ भोएसु, अभोगी णोवलिप्पइ ।
भोगी भमइ संसारे, अभोगी विप्पमुच्चइ ॥४१॥ व्याख्या-उपलेपः कर्मोपचयरूपो [भवति] भोगेषु भुज्यमानेषु, अभोगी च नोपलिप्यते कर्मभिः, भोगी भ्रमति संसारे, अभोगी च कर्मलेपाद्विप्रमुच्यते ॥४१॥ दृष्टान्तेनाह
सुक्को उल्लो य दो छूढा, गोलया मट्टियामया ।
दो वि आवडिया कुड्डे, जो उल्लो सोत्थ लग्गइ ॥४२॥ व्याख्या-शुष्कश्चार्द्रश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ, द्वाप्यापतितौ कुड्ये भित्तौ, ततो य आर्द्रः सोऽत्रेत्यनयोर्मध्ये लगति श्लिष्यति कुड्ये ॥४२॥ दालन्तिकयोजनामाह
एवं लग्गंति दुम्मेहा, जे नरा कामलालसा ।
विरत्ता उ न लग्गति, जहा सुक्के उ गोलए ॥४३॥ व्याख्या-एवं लगन्ति कर्मणा, दुर्मेधसो दुष्टबुद्धयो ये नराः कामलालसा विषयलम्पटाः, तु पुनर्ये विरक्ता विषयेभ्यो विमुखीभूतास्ते न लगन्ति कर्मभिः सह श्लेषीभावं न प्राप्नुवन्ति, यथा स शुष्को गोलको भित्तौ न लगन्ति ॥४३॥ ततः
एवं सो विजयघोसो, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्मं सुच्चा अणुत्तरं ॥४४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org