SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशं यज्ञीयाध्ययनम् वाणारसीइ बहिया, उज्जाणंमि मणोरमे । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥३॥ व्याख्या-स साधुर्वाणारस्यां बाह्ये मनोरमे उद्याने प्रासुके जन्तुरहिते शय्यासंस्तारके दर्भतृणादिरचिते शयनोपवेशनस्थितौ तत्र वासं निवासमुपागतः ||३|| तदा च तत्र अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोस त्ति, जण्णं जयइ वेयवी ॥४॥ व्याख्या-अथ सुब्व्यत्ययात्तस्मिन्नेव काले तत्र पुर्यां विजयघोष इति नाम्ना वेदविद् ब्राह्मणो यज्ञं यजति ||४|| अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जण्णंमि, भिक्खमट्ठा उवट्ठिए ॥ ५ ॥ ३७७ व्याख्या - अथ स जयघोषोऽनगारो मुनिस्तत्र विजयघोषस्य यज्ञे इति यज्ञस्थाने मासक्षपणपारणे भिक्षार्थमुपस्थितः प्राप्तः ||५|| समुट्ठियं तहिं संतं, जायगो पडिसेहइ । ण हु दाहामि ते भिक्खं, भिक्खू जायाहि अण्णओ ||६|| व्याख्या - तदा याजको यजमानो विजयघोषब्राह्मणस्तत्र भिक्षार्थं समुपस्थितं सन्तं तं साधुं प्रतिषेधति निवारयति, न हु नैव दास्यामि 'ते' तुभ्यं भिक्षां, अतो हे भिक्षो याचस्वान्यतोऽन्यस्मात् ॥६॥ यतः जे य वेयविऊ विप्पा, जण्णट्ठा य जे दिया । जो संगविऊ जे य, जे य धम्माण पारगा ॥७॥ ' व्याख्या - ये च वेदविदो वेदज्ञा जातितश्च विप्राः, यज्ञार्था यज्ञ एव अर्थ: प्रयोजनं येषां ते यज्ञार्थाः, च पुनर्ये द्विजाः संस्कारेण द्वितीयजन्मतः च पुनर्ये ज्योतिषाङ्गविदः, ज्योतिःशास्त्रस्य वेदाङ्गत्वेऽपि तदादानेन शिक्षा १ कल्प २ व्याकरण ३ छन्दो ४ ज्योति: ५ निरुक्तानां ६ षडङ्गानामादानं ज्ञेयं । ये च धर्मशास्त्राणां पारगाः सर्वविद्यास्थानानां वा ॥७॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy