________________
३७६
श्रीउत्तराध्ययनदीपिकाटीका-२ एवं तमन्योऽन्यग्रासं दृष्ट्वा अहो घोरः संसार इति बुद्धो जयघोसो गङ्गामुत्तीर्य श्रमणानां वसतिं वनादौ स्थानमागतः ।
सो समणो पव्वइओ, निग्गंथो सव्वगंथउम्मको ।
वोसिरिऊण असारो, केसेहिं समं परिक्वेसे ॥७॥ [ आव. नि./गा.४६९] जयघोषः समनाः सहृदयप्रव्रजितो हेयधर्मेभ्यो निर्गतो निर्ग्रन्थो ग्रन्थरहितः, स च बाह्यग्रन्थमुक्तोऽपि स्यात् , अत आह–सर्वो बाह्य आन्तरश्च यो ग्रन्थस्तेनोन्मुक्तः, वक्ष्यमाणश्रमणविशेषान्येतानि, व्युत्सृज्य त्यक्त्वाऽसारान् परमार्थालोचनायामप्रधानान् , केशैः शिरोरुहै: समं, परिक्लेशयन्तीति परिक्लेशाः पुत्रकलत्रादिसम्बन्धास्तान् ।
पंचमहव्वयजुत्तो, पंचिंदियसंवुडो गुणसमग्गो।
घडणजयणप्पहाणो, जाओ समणो समियपावो ॥८॥[आव. नि./गा.४७०] पञ्चमहाव्रतयुक्तः पञ्चेन्द्रियसंवृतो गुणसमग्र इति सर्वगुणैर्युक्तः, घटनं संयमयोगविषयं चेष्टनं, यतनं तत्रैवोपयुक्तत्वं, ताभ्यां प्रधानः प्रवरो घटनयतनप्रधानो जातः श्रमणः, शमितपापः समितानि पापानि मिथ्यात्वादिपापकृतिरूपाणि येनासौ शमितपापः ॥ सूत्रम्
शेषचरितं सूत्रकृदेवाह--
माहणकुलसंभूओ, आसि विप्पो महायसो ।
जायाई जमजण्णंमि, जयघोस त्ति नामओ ॥१॥ व्याख्या-ब्राह्मणकुलसम्भूतो विप्रकुले समुत्पन्नो जयघोष इति नामा विप्र आसीत् । अत्र हि यद् ब्राह्मणकुलसम्भूतो विप्र आसीदित्युक्तं, तद्ब्राह्मणजनकादुत्पन्नोऽपि जननीजातिहीनत्वेऽब्राह्मणः स्यादत एव विप्र इत्युक्तं । अवश्यं यो यजतीति यायाजी, क्वेत्याह-यमाः प्राणातिपातविरत्यादिरूपाः पञ्च, त एव यज्ञो यमयज्ञस्तस्मिन् । यतिर्जात इत्यर्थः ॥१॥
इंदियग्गामनिग्गाही, मग्गगामी महामुणी ।
गामाणुगामं रीयंते, पत्ते वाणारसिं पुरिं ॥२॥ व्याख्या-'इंदियग्गामनिग्गाही' इन्द्रियाणां ग्रामं समूहं निगृह्णाति वशीकरोतीति इन्द्रियग्रामनिग्राही, अत एव मार्गगामी मुक्तिपथयायी, एवंविधोऽसौ एकरात्रिकी प्रतिमामभिग्रहं वहन् , ग्रामादन्यो ग्रामो ग्रामानुग्रामस्तं रीयमाणो विहरन् वाणारसी पुरी प्राप्तः ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org