________________
३७८
श्रीउत्तराध्ययनदीपिकाटीका-२ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य ।
तेसिं अण्णमिणं देयं, भो भिक्खू सव्वकामियं ॥८॥ व्याख्या-ये समर्थाः समुद्धर्तुं भवाब्धेः परं चात्मानमेव च, सुब्ब्यत्ययात्तेभ्यो द्विजेभ्योऽन्नमिदं देयं, भो भिक्षो ! सर्वाणि काम्यान्यभिलषणीयवस्तूनि यस्मिंस्तत्सर्वकाम्यं सर्वकामिकं षड्रसोपेतमिति ॥८॥ एवमुक्तो मुनि:
सो तत्थ एव पडिसिद्धो, जायएण महामुणी ।
न वि तुट्ठो न वि रुट्ठो, उत्तमट्ठगवेसओ ॥९॥ व्याख्या-स जयघोषो महामुनिस्तत्र यज्ञे एवं प्रतिषिद्धो याजकेन यज्ञकर्ता विजयघोषेण, नापि तुष्टो नापि रुष्टः, किं तु समतयैव स्थित इति भावः, यतः स उत्तमार्थो मोक्षस्तमेव गवेषयते इत्युत्तमार्थगवेषकः, मुक्तिं विनाऽन्यत्र निःस्पृह आसीदिति ।।९।।
णण्णटुं पाणहेउं वा, ण वि णिव्वाहणाय वा ।
तेसिं विमोक्खणट्ठाए, इमं वक्कमुदाहरे ॥१०॥ व्याख्या-नाऽन्नार्थं, पानमाचाम्लादि तद्धेतुं वा, नापि निर्वाहणाय वा वस्त्राभ्यङ्गतैलादिना यापनार्थं, सर्वत्रात्मन इति गम्यम् । किमर्थं तीत्याह-तेषां याज्ञिकानां विमोक्षणार्थाय, कथं नामामी मुक्तिमाप्नुयुरित्यर्थायेदं वाक्यमब्रवीत् ॥१०॥
किं तदित्याह__ न वि जाणसि वेयमुहं, न वि जण्णाण जं मुहं ।
नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥११॥ व्याख्या-नैव जानासि वेदानां मुखमिव मुखं वेदमुखं यत्तेषु प्रधानं, नापि यज्ञानां यन्मुखमुपायस्तं, नक्षत्राणां मुखं प्रधानं, यच्च धर्माणां वा मुखमुपायस्तं, तानि सर्वाण्यपि भो विजयघोष ! त्वं न जानासि । अनेन तस्य वेदयज्ञज्योतिर्धर्माऽनभिज्ञत्वमुक्तम् ॥११॥
अथ तस्य पात्राऽविज्ञातामाह
जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । ते वि तुमं ण याणासि, अह जाणसि तो भण ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org