________________
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
३७३
वेशात्मकेन प्रकारेण, चः पूर्ती, तु विशेषणे, मनः प्रवर्त्तमानं निवर्त्तयेत्, विशेषश्चायमिह शुभसङ्कल्पेषु मनः प्रवर्त्तयेत् ['जयं'ति यतमानः यतिः तपस्वी ] ॥ २१ ॥
वाग्गुप्तिमाह
(संकप्पो संरंभो, परितापकरो भवे समारंभो । आरंभो उद्दवओ, सुद्धवयाणं सव्वेसिं ॥ २१ ॥ )
व्याख्या-वचनयोगं वदति - सर्वेषां अशुद्धवचसां एते भेदा भवन्ति, कीदृशास्ते भेदाः ? परितापकराः, के ते भेदाः ? संरम्भः सङ्कल्पः, इत्याद्यर्थः पूर्ववदेव । सच्चा तहेव मोसा य, सच्चामोसा तहेव य ।
उत्थी असच्चमोसा उ, वयगुत्ती चउव्विहा ॥२२॥
व्याख्या - तथा सत्या वाक् जीवं जीवमिति वदतः असत्या जीवमजीवमिति, सत्यामृषा क्वचिद्विवक्षितसमये नृशतमुत्पन्नं मृतं चेति । तथैव चतुर्थी असत्याऽमृषा तु विधेहि स्वाध्यायं ! नैव तत्सदृशमन्यत्तपोऽस्तीत्यादि । एवं वचनगुप्तिश्चतुर्विधा ॥२२॥ संरंभसमारंभे, आरंभे य तहेव य ।
वयं पवट्टमाणं तु, नियत्तिज्ज जयं जई ॥ २३ ॥
व्याख्या - यतिः साधुः 'जयं'ति यत्नवान् सन् वचनं संरम्भे समारम्भे तथैव चारम्भे प्रवर्त्तमानं निवर्त्तयेत् संरम्भः परजीवस्य विनाशनसमर्थदुष्टविद्यानां गुणनं, समारम्भः परेषां परितापकारकमन्त्रादीनां मुहुर्मुहुः परावर्त्तनं तथैव च आरम्भः परेषां क्लेशोच्चाटनमारणादिमन्त्रजापकरणं, तत्रापि प्रवर्त्तमानं वचनं निवारयेत् ||२३||
कायगुप्तिमाह
"
ठाणे निसीयणे चेव, तहेव य तुयट्टणे ।
उल्लंघण पल्लंघण, इंदियाण य जुंजणे ॥ २४ ॥
व्याख्या-स्थाने ऊर्ध्वस्थितौ निषीदने उपवेशने, चः तयोरेव विचित्रभेदसमुच्चयार्थः, एवेति पूरणे, तथैव त्वग्वर्त्तने शयने, उल्लङ्घने तथाविधनिमित्तत्त ऊर्ध्वभूमिकाद्युत्क्रमेण गर्त्ताद्यतिक्रमेण वा प्रलङ्घने सामान्येन गमने, उभयत्र सुपो लुक्, इन्द्रियाणां स्पर्शादीनां योजने, शब्दादिविषयेषु व्यापारेण सर्वत्र वर्त्तमान इति शेषः ||२४|| संरंभसमारंभे, आरंभे य तहेव य ।
कायं पवत्तमाणं तु, नियत्तिज्ज जयं जई ॥२५॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org