________________
३७२
श्रीउत्तराध्ययनदीपिकाटीका-२ विच्छिन्ने दूरमोगाढे, नासन्ने बिलवज्जिए ।
तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥१८॥ व्याख्या-विस्तीर्णे जघन्यतोऽपि हस्तमाने, दूरमवगाढे जघन्यतोऽप्यधस्ताच्चतुरङ्गलमचित्तीभूते, नासन्ने ग्रामारामादेर्दूरवर्तिनि, बिलवर्जिते मूषकादिरन्ध्ररहिते, त्रसप्राणाश्च द्वीन्द्रियादयः, बीजानि शाल्यादीनि, सर्वैकेन्द्रियोपलक्षणं चैतत्, तत्रस्थैरागन्तुकैश्च तै रहितं तत् त्रसप्राणबीजरहितं तस्मिन् । एभिर्दशभिर्गुणैरेकद्व्यादिगुणसंयोगेन १०४२४ भङ्गाः स्युः, परं अन्त्ये दशगुणभेद एव स्थण्डिले मुख्यवृत्त्या परिष्ठाप्यं, तदभावेन गुणादिष्वप्यपवादेन उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत् , पुनरुच्चाराद्यभिधानं विस्मरणशीलस्मरणार्थमदुष्टमिति सूत्रचतुष्कार्थः ॥१८॥ उक्तमुपसंहरन् वक्ष्यमाणार्थसम्बन्धायाह
एयाओ पंच समिईओ, समासेण वियाहिया ।
इत्तो य तओ गुत्तीओ, वुच्छामि अणुपुव्वसो ॥१९॥ व्याख्या-एताः पञ्च समितयः समासेन सङ्केपेण व्याहृता उक्ताः, अतश्च समितिप्रतिपादनादनु 'तओ'त्ति तिस्त्रो गुप्तीर्मनोवाक्कायगुप्तीः 'अणुपुव्वसो'त्ति आर्षत्वादानुपूर्व्याऽनुक्रमतो वक्ष्यामि ॥१९॥ मनोगुप्तिमाह
सच्चा तहेव मोसा य, सच्चामोसा तहेव य ।
चउत्थी असच्चमोसाओ, मणगुत्ती चउव्विहा ॥२०॥ व्याख्या-सद्भयः पदार्थेभ्यो हिता, यथा विकल्पनेनाप्तः सत्यो मनोयोगस्तद्विषया मनोगुप्तिरप्युपचारात् सत्या, तथैव मृषा च तद्विपरीता, सत्यामृषा उभयात्मकमनोयोगगोचरा, तथैव चेति समुच्चये, चतुर्थी असत्याऽमृषा उभयस्वभावविकलमनोदलिकरूपा, एवं मनोगुप्तिश्चतुर्विधोक्ता ॥२०॥
अस्या एव स्वरूपं निरूपयन्नुपदिशति
संरंभसमारंभे, आरंभे य तहेव य ।
मणं पवत्तमाणं तु, नियत्तिज्ज जयं जई ॥२१॥ व्याख्या-संरम्भः सङ्कल्पस्तथाहं ध्यास्यामि यथासौ मरिष्यतीत्येवंविधः, समारम्भः परपीडाकरोच्चाटनादिनिबन्धनं ध्यानं, समाहारे संरम्भसमारम्भस्तस्मिन् , आरम्भः परमारणक्षमाऽशुभध्यानमेव, तस्मिन् , चः समुच्चये, तथैव तेनैवागमोक्तेन तत्र मनसोऽसन्नि
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org