________________
३७१
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
व्याख्या-यत्नवान् यतिश्चक्षुषा प्रत्युपेक्ष्यावलोक्य प्रमार्जयेद्रजोहरणादिना, आददीत निक्षेपेद्वा, द्वावप्यौघिकौपग्राहिकोपधी, यद्वा द्विधापि द्रव्यतो भावतश्च समित आदाननिक्षेपणासमितिवान् सन् सदा ॥१४|| पारिष्ठापनासमितिमाह
उच्चारं पासवणं, खेलं सिंघाणजल्लियं ।
आहारं उवहिं देहं, अण्णं वा वि तहाविहं ॥१५॥ व्याख्या-उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखस्य श्लेष्माणं, सिंघाणं नासायाः आर्षत्वाज्जल्लं मलं, आहारमशनादि, उपधिं वर्षाकल्पादि, देहं त, अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूरणे, तथाविधं परिष्ठापनार्ह स्थण्डिले व्युत्सृजेदित्युत्तरत्र सम्बन्धः ॥१५॥
स्थण्डिलं च दशविशेषणविशिष्टमिति मनसाऽध्यायि, तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदयोर्भङ्गरचनमाह
अणावायमसंलोए, अणावाए चेव होइ संलोए ।
आवायमसंलोए, आवाए चेव संलोए ॥१६॥ व्याख्या-अनापाताः स्वपरोभयपक्षसमीपागमनरूपा यस्मिंस्तस्मिन्नित्यनापातं स्थण्डिलमिति गम्यं, 'असंलोए'त्ति सूत्रत्वादिहोत्तरत्र च लिङ्गव्यत्यये न [विद्यते] संलोको दूरस्थस्यापि स्वपक्षादेर्दर्शनं यस्मिंस्तदऽसंलोकं, आद्यो भङ्गः ।१।
अनापातं चैव भवति संलोकं, यत्रापातो नास्ति, संलोकश्चास्तीति द्वितीयो भङ्गः ।२। आपातमसंलोकं, यत्रापातोऽस्ति, न च संलोक इति तृतीयो भङ्गः ।३। आपातं चैव संलोकं, यत्रोभयमपि स्यात् , इति चतुर्थो भङ्गः ।४। ॥१६॥ यादृशे स्थण्डिले व्युत्सृजेत्तदाह
अणावायमसंलोए, परस्साणुवघाइए ।
समे अज्झुसिरे यावि, अचिरकालकयंमि य ॥१७॥ व्याख्या-अनापाते असंलोके परस्य स्वपक्षादेरनुपघातिके संयमात्मप्रवचनबाधारहिते, समे निम्नोन्नतत्ववजिते, अशुषिरे तृणपर्णाद्यनाकीर्णे, अचिरकालकृते च दाहादिना स्वल्पकालनिर्वत्तिते, मासद्वयऋतुपरावर्तिचिरकालकृते हि पुनः सम्मूर्च्छन्त्येव पृथ्वीकायादयः ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org