SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३७० श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-एतान्यष्टौ स्थानानि परिवर्त्य संयतः क्रोधादियोगेन मृषारूपमसद्वाग्योगं परिहृत्याऽसावद्यां निर्दोषां मितां यथाकार्यार्थी काले प्रस्तावे भाषां भाषेत प्रज्ञावान् ॥१०॥ अथैषणासमितिमाह गवेसणा य गहणे य, परिभोगेसणा य जा । आहारोवहिसेज्जाए, एए तिण्णि विसोहए ॥११॥ व्याख्या-गवेषणायामन्वेषणायां च ग्रहणे च स्वीकरणे, उभयत्र प्राकृतत्वादेषणेति सम्बद्ध्यते । ततो गवेषणायामेषणा, ग्रहणे चैषणा । परिभोग आसेवनं तद्विषयैषणा परिभोगैषणा, च यावत् वचनव्यत्ययादाहारोपधिशय्यासु, एता एषणाः, सूत्रत्वाल्लिङ्गव्यत्ययः, तिस्रो विशोधयेन्निर्दोषा विदध्यात् ॥११॥ कथमित्याह उग्गमुप्पायणं पढमे, बिइए सोहिज्ज एसणं । परिभोगंमि चउक्कं च, विसोहिज्ज जयं जयी ॥१२॥ व्याख्या-उद्गमोत्पादनं, समाहारे उद्गमोत्पादनादोषान् विशोधयेत् , आधादित्यागादुद्गमं, धात्र्यादित्यागादुत्पादनां शुद्धां कुर्यात् प्रथमायां गवेषणैषणायां । द्वितीयायां ग्रहणैषणायां शोधयेच्छङ्कितादिदोषत्यागत एषणां, ग्रहणकालभाविग्राह्यगतदोषान्वेषणां । परिभोगैषणायां चतुष्कं पिण्डशय्यावस्त्रपात्रात्मकं, यद्वा संयोजनाऽप्रमाणाङ्गारधूमाऽकारणात्मकं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् , विशोधयेत् यतमानो यतिः, पुनः क्रियाभिधानं विशुद्ध्यादरज्ञप्त्यै ॥१२॥ आदाननिक्षेपसमितिमाह ओहोवहोवग्गहियं, भंडगं दुविहं मुणी । गिर्हतो निक्खिवंतो य, पउंजिज्ज इमं विहिं ॥१३॥ व्याख्या-उपधिशब्दो मध्यनिविष्टत्वादुभयत्र सम्बद्ध्यते, ओघोपधिमौपग्राहिकोपधिं च, भाण्डकमुपकरणं रजोहरणदण्डकादि द्विविधं मुनिर्गृह्णन् निक्षिपंश्च क्वचित् स्थापयन् प्रयुञ्जीत इमं वक्ष्यमाणं विधिम् ॥१३॥ तमेवाह चक्खुसा पडिलेहित्ता, पमज्जेज्ज जयं जई । आयए निक्खिविज्जा वा, दुहओ वि समिए सया ॥१४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy