SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ३६९ चतुर्विंशं प्रवचनमात्रीयमध्ययनम् अथ यतनामाह दव्वओ खित्तओ चेव, कालओ भावओ तहा । जयणा चउव्विहा वुत्ता, तं मे कित्तयओ सुणे ॥६॥ व्याख्या-यतना चतुर्विधा उक्ता जिनैरिति शेषः, द्रव्यतः, क्षेत्रतः कालतस्तथा भावतश्च । तां यतनां चतुर्विधां मे कीर्त्तयतः शृणु हे शिष्येति ॥६॥ दव्वओ चक्खुसा पेहे, जुगमित्तं च खित्तओ । कालओ जाव रीएज्जा, उवउत्ते य भावओ ॥७॥ व्याख्या-द्रव्यतो जीवादिकं द्रव्यमाश्रित्यैवं यतना यच्चक्षुषा प्रेक्षेत, जीवादिद्रव्यं प्रेक्ष्य संयमात्मविराधनात्यागेन गच्छेदिति । युगमात्रं चतुर्हस्तप्रमाणं क्षेत्रं प्रेक्ष्यते शकटोर्द्धसंस्थितया शरीरप्रमाणया दृष्ट्या, इयं क्षेत्रतो यतना । कालतो यतना यावन्तं कालं रीयते तावत्कालमानेन । उपयुक्तत्वेन सावधानत्वेन यद्रीयते इयं भावतो यतना ॥७॥ उपयुक्तत्वमेवाह इंदियत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरक्कारे, उवउत्ते रियं रिए ॥८॥ व्याख्या-इन्द्रियार्थान् शब्दादीन् , तदध्यवसायतो विवर्त्य, चः समुच्चये, एवोऽप्यर्थः, ततो न केवलमिन्द्रियार्थान् विवऱ्या, किन्तु स्वाध्यायं चापि पञ्चधा, वाचनादिभेदतः पञ्चप्रकारं गत्युपयोगोपघातित्वात् , ततस्तस्यामेवेर्यायां मूर्तिर्देहो व्याप्रियमाणायस्यासौ तन्मूर्तिस्तामेव पुरस्करोति, तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुते इति तत्पुरस्कारोऽनेन कायमनसोस्तत्परतोक्ता, एवमुपयुक्तः सन्नीर्यां रीयते यतिः ॥८॥ अथ भाषासमितिमाह कोहे माणे य माया य, लोभे य उवउत्तया । हासे भय मोहरिए, विकहासु तहेव य ॥९॥ व्याख्या-क्रोधे माने च मायायां लोभे चोपयुक्तता, क्रोधाद्येकाग्रता, हास्ये भये मौखर्ये विकथासु तथैवोपयुक्तता ॥९॥ एयाइं अट्ठ ठाणाइं, परिवज्जित्तु संजए । असावज्जं मियं काले, भासं भासेज्ज पण्णए ॥१०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy