________________
३६८
श्रीउत्तराध्ययनदीपिकाटीका-२ त्समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः, यत्तु भेदेनोपादानं तत्समितीनां प्रवीचाररूपत्वेन, गुप्तीनां प्रवीचाराऽप्रवीचारात्मकत्वेन कथञ्चिद्भेदात् , समासेन सकलागमसङ्ग्रहेण व्याख्याताः, द्वादशाङ्गं जिनाख्यातं, तुः एवार्थे, मातामेवान्तभूर्तमेव यत्रेति यासु प्रवचनमागमः, एवं प्रवचनमातमत्रेति प्रवचनमाताः, यद्वा प्रवचनस्य जिनाज्ञारूपस्य पालनात् मातृवत् प्रवचनमातरो वा । यथेहेर्यासमितावाद्यव्रतं, तवृत्तिकल्पानि शेषव्रतान्यपि च तत्रैवान्तर्भवन्ति, तेषु च न तदस्ति यन्न समवरसति । उक्तं च
पढमंमि सव्व जीवा, बीए चरिमे य सव्वदव्वाइं ।
सेसा महव्वया खलु, तदिक्कदेसेण नायव्वा ॥१॥ [ आ. नि./गा.७९१] इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यते । भाषासमितौ च सावधवाक्त्यागाऽनवद्यवागरूपायां वाक्यपर्यायः समग्रोऽप्याक्षिप्त एव, न च तद्बहिर्भूतं किञ्चिदस्ति, एवमेषणादिष्वपि भावनीयं । यद्वा सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनादिना भावि च चारित्रं, न चैतेभ्योऽतिरिक्तमन्यद् द्वादशाङ्ग, इत्यत एतासु तद् द्वादशाङ्गं मातमुच्यते ॥३॥ तोर्यासमितिमाह
आलंबणेण कालेण, मग्गेणं जयणाइ य ।
चउकारणपरिसुद्धं, संजए इरियं रिए ॥४॥ व्याख्या-आलम्बनेन, कालेन, मार्गेण, यतनया च एवं चतुःकारणैरेभिः परिशुद्धां निर्दोषां चतुःकारणपरिशुद्धां संयतो यतिरियां गतिं रीयते गच्छेत् ॥४॥
आलम्बनादीनि व्याख्याति
तत्थ आलंबणं नाणं, सणं चरणं तहा ।
काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए ॥५॥ व्याख्या-तेष्वालम्बनादिषु आलम्बनं यदालम्ब्य गमनमनुज्ञायते, नरालम्बनस्य हि नानुज्ञातं गमनं, तच्चालम्बनं ज्ञानं सूत्रार्थोभयात्मकागमः, दर्शनं सम्यक्त्वं, चरणं चारित्रं, तथाशब्दोऽनुक्तसमुच्चयार्थो द्वित्वादिभङ्गसूचकः, ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन वा गमनमनुज्ञातम् ॥१॥
कालश्चर्याया विषयो दिवस उक्तोऽहंदाद्यैः, रात्रौ ह्यचक्षुर्विषयत्वेन पुष्टालम्बनं विना नानुज्ञातं गमनम् ॥२॥
मार्ग इह सामान्येन पन्थाः, स उत्पथेनोन्मार्गेण वर्जित इत्युत्पथवर्जितः, उत्पथे व्रजत आत्मसंयमविराधनादयो दोषाः ॥३॥ ॥५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org