SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ३७४ श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-संरम्भोऽभिघातो यष्टिमुष्ट्यादिभिः, समारम्भः परितापकरो मुष्ट्याद्यभिघातः, ततः संरम्भसमारम्भस्तस्मिन् , आरम्भः प्राणिवधस्तेषु सर्वेषु प्रवर्त्तमानं कायं यत्नवान् साधुनिवर्त्तयेत् ॥२५॥ समितिगुप्त्योरन्योऽन्यं विशेषं स्वयं सूत्रकृदाह एयाओ पंच समिईओ, चरणस्स पवत्तणे । गुत्ती णियत्तणे वुत्ता, असुभत्थेसु सव्वसो ॥२६॥ व्याख्या-एता पञ्च समितयश्चरणं सच्चेष्टा, तस्य, च एवार्थे, ततः प्रवर्त्तने एव सच्चेष्टाप्रवृत्तावेव चारित्रस्य प्रवर्त्तने एव समितय उक्ताः, गुप्तयस्तु निवर्त्तनेऽप्युक्ताः, केभ्यः? सुब्ब्यत्ययादशुभार्थेभ्योऽशुभमनोयोगादिभ्यः सर्वेभ्योऽपि, तपश्चरणप्रवर्त्तने चोक्ता, उपलक्षणं चैतत् शुभार्थेभ्योऽपि निवृत्तेः, वाक्काययोर्निव्यापारताया अपि गुप्तिरूपत्वात् ॥२६॥ अध्ययनार्थमुपसंहरन्नेतदाचरणफलमाह एया पवयणमाया, जे सम्मं आयरे मुणी । सो खिप्पं सव्वसंसारा-विप्पमुच्चइ पंडिए ॥२७॥ त्ति बेमि व्याख्या-यो मुनिरेताः प्रवचनमातः सम्यगऽवैपरीत्येन, न तु दम्भादिना आचरेत् कुर्यात् , स पण्डित सर्वसंसारात् क्षिप्रं विप्रमुच्येत, इति समाप्तौ, ब्रवीमीति प्राग्वत् ॥२७॥ इति चतुर्विंशं प्रवचनमात्रीयमध्ययनमुक्तम् ॥२४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy