________________
३६५
त्रयोविंशं केशि-गौतमीयमध्ययनम्
णिव्वाणं ति अबाहं ति, सिद्धी लोयग्गमेव य ।
खेमं सिवमणाबाहं, जं चरंति महेसिणो ॥८३॥ व्याख्या-निर्वान्ति सन्तापाऽभावेन शीतीभवन्ति जन्तवोऽस्मिन्निति निर्वाणं, अबाधं बाधारहितं, सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां जन्तव इति सिद्धिः, लोकानमिति सर्वजगदुपरिवर्ति, ‘एव'त्ति पूर्ती, चः समुच्चये, क्षेमं शाश्वतसुखकारणं, शिवमुपद्रवरहितं, एवंविधं यन्मोक्षस्थानं चरन्ति गच्छन्ति महर्षयो बाधारहितं यथास्यात्तथा ।।८३॥
तं ठाणं सासयं वासं, लोयग्गंमि दुरारुहं ।
जं संपत्ता ण सोयंति, भवोहंतकरा मुणी ॥८४॥ व्याख्या-तत् पूर्वोक्तं, बिन्दोरलाक्षणिकत्वात् शाश्वतावासरूपं स्थानं लोकाग्रभागे दुरारोहं तपोऽनुष्ठानादिदुःकरयोगसाध्यमस्ति । यत् स्थानं सम्प्राप्ता मुनयो भवौघान्तकराः संसारप्रवाहविध्वंसकाः सन्तो न शोचन्ते ॥८४।।
अथ केशिौतमं स्तौति
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो ।
णमो ते संसयातीत, सव्वसुत्तमहोयही ॥८५॥ व्याख्या हे गौतम ! 'ते' तव प्रज्ञा साध्वी वर्तते, 'मे' ममायं संशयः सन्देह-- स्त्वया छिन्नो दूरीकृतः, हे संशयातीत ! हे सन्देहरहित ! हे सर्वसूत्रमहोदधे ! सकलसिद्धान्तरत्नाकर ! यद्वा संशयैरतीता निःसन्देहीभूता ये सकलसिद्धान्तास्तेषां हे महोदधे ! स्तुतिसूचकमेतत् , 'ते' तुभ्यं नमोऽस्तु ? गाम्भीर्यान्वितविनयसूचकोऽयं केशिमहात्मनो गौतमं प्रति नमस्कारः ॥८५।। प्रश्नोपसंहारमाह
एवं तु संसये छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महाजसं ॥८६॥ पंचमहव्वयं धम्मं, पडिवज्जइ भावओ ।
पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ॥८७॥ युग्मम् ॥ व्याख्या एवं पूर्वोक्तेनैव क्रमेण, तुः एवार्थे, संशये छिन्ने सति, जातावेकवचनं, घोरपराक्रमस्तपश्चर्यादिषु रौद्रपुरुषार्थवान् केशिगणधरो महायशसं निजप्रज्ञाज्ञानाति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org