________________
३६४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या हे केशिमुने ! क्षीणः संसारो भवभ्रमणं यस्य, तथा सर्वज्ञः सर्वस्वरूपवेत्ता, एवंविधो जिनभास्करोऽर्हदादित्य उद्गतोऽस्ति, स च सर्वलोके मिथ्यात्वतमः-पटलततिविघटनत उद्योतं सर्वपदार्थप्रकटनं करिष्यति विधास्यतीति ।।७८।।
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ॥७९॥ व्याख्या-प्राग्वत् ॥७९॥ इत्युक्तमेकादशं तमोनाशनद्वारं, अथ द्वादशं स्थानोपसम्पत्प्रश्नमाह
सारीरमाणसे दुक्खे, बज्झमाणाण पाणिणं ।
खेमं सिवमणाबाहं, ठाणं किम्मण्णसी मुणी ॥८०॥ व्याख्या-हे गौतममुने ! आर्षत्वाच्छारीरमानसैर्दुःखैर्बाध्यमानानां (पाठान्तरेपच्यमानानां) व्याकुलीक्रियमाणतया, प्राणिनां क्षेमं व्याध्यभावेन, शिवं जरामरणाद्युपद्रवाऽभावेन, अनाबाधं स्वाभाविकबाधाऽपगमात् , तिष्ठन्त्यस्मिन्निति स्थानमाश्रयः, किं त्वं मन्यसे ? न किञ्चिदीदृशं विद्मः ।।८०|| गौतमः प्राह
अत्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं ।
जत्थ नत्थि जरा मच्चू, वाहि णो वेयणा तहा ॥८१॥ व्याख्या-हे केशिमुने ! अस्त्येकमद्वितीयं ध्रुवं निश्चलं तत्स्थानं लोकाग्रे, दुःखेनारुह्यते इति दुरारोह, दुरापेणैव सम्यग्दर्शनादित्रयेण तदवाप्यते । यत्र यस्मिन् स्थाने नास्ति जरा वृद्धत्वं मरणं च । तथैव तत्र व्याधिः कफपित्ताद्युद्भवा शारीरबाधा नास्ति, तथा वेदना मानसोद्भवा दुःखानुभवरूपापि तत्र नास्ति । एवं तत्स्थानस्य क्षेमत्वमावेदितम् ॥८१॥
केशिराह
ठाणे य इइ के वुत्ते, केसी गोयममब्बवी ।
तओ केसिं वुवंतं तु, गोयमो इणमब्बवी ॥८२॥ व्याख्या हे गौतम ! इति ध्रुवादिविशेषणयुतं स्थानं च त्वया किमुक्तं ? इति केशिर्गौतमं प्रत्यब्रवीत् , तत एवं ब्रुवन्तं केशि प्रति गौतम इदमब्रवीत् ॥८२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org