________________
त्रयोविंशं केशि-गौतमीयमध्ययनम्
३६३ सरीरमाहु णावि त्ति, जीवो वुच्चइ नाविओ।
संसारो अण्णवो वुत्तो, जं तरंति महेसिणो ॥७३॥ व्याख्या-शरीरमाहुनौरिति, नाविकश्च तस्यैव सदनुष्ठानहेतुतया भावाब्धितारकत्वाज्जीव उच्यतेऽर्हद्भिः, संसारश्चायमर्णव उक्तः, यं तरन्ति महदेषिणो महर्षयो वा ॥७३।। केशिराह
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ॥७४॥ व्याख्या-प्राग्वत् ।।७४॥ इत्युक्तं दशमं भवतरणद्वारं, अथैकदशस्तमोनाशकप्रश्न:
अंधकारे तमे घोरे, चिटुंती पाणिणो बहू ।
को करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥७५॥ व्याख्या-अन्धं जनं करोतीत्यन्धकारं, एवंविधे तस्मिन् घोरे तमसि तिष्ठन्ति प्राणिनो बहवः, अतो हे गौतम ! तमोव्याप्ते सर्वलोके प्राणिनां क उद्योतं करिष्यति? न कञ्चित्तादृशमुद्योतकरं पश्याम इति ॥५॥
गौतम प्राह___उग्गओ विमलो भाणू, सव्वलोगप्पभंकरो ।
सो करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥७६॥ व्याख्या-हे केशिमुने ! सर्वलोकप्रभाकरो विमलो निर्मलो भानुरुद्गतोऽस्ति, स सर्वलोके प्राणिनामुद्योतं करिष्यति ॥७६।।
केशिरुवाच
भाणू य इइ के वुत्ते, केसी गोयममब्बवी ।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥७७॥ व्याख्या हे गौतम ! भानुश्च इति त्वया क उक्तः ? एवं केशिर्गौतमं प्रत्यब्रवीत् । तत इति ब्रुवन्तं केशि प्रति गौतम इदमुत्तरमब्रवीत् ॥७७।।
उग्गओ खीणसंसारो, सव्वन्नू जिणभास्करो । सो करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥७८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org