________________
३६२
श्रीउत्तराध्ययनदीपिकाटीका-२ प्रतिष्ठारूपः, तथा गतिर्गमनयोग्यत्वात् , शरणं चोत्तमं सर्वसांसारिकक्लेशमोचनात्मकत्वात् । इह द्वीपमात्रप्रश्नोक्तावपि शेषोक्तिः सादृश्यात्तत्प्रश्ने ज्ञेया ॥६८|| केशिः प्राह
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ॥६९॥ व्याख्या-प्राग्वत् । इत्युक्तं नवमं द्वीपद्वारं, अथ दशमं भवतरणप्रश्नमाह
अन्नवंसि महोघंसि, णावा विपरिधावइ ।
जं सि गोयममारूढो, कहं पारं गमिस्ससि ॥७०॥ व्याख्या-हे गौतम ! अर्णवे समुद्रे, महौघे बृहत्कल्लोलोल्ललितजलप्रवाहोपेते, नौविपरिधावति विशेषणे समन्तादितस्ततोऽनेकाऽनर्थसार्थवीचिभिरालोड्यमाना वेगाद्गच्छति, यां नावं प्रति असि भवसि त्वमारूढः, अथवा यस्यां नौकायामारूढस्त्वं कथं पारं तन्महार्णवस्य गमिष्यसि ? न कथञ्चिदिति प्रष्टुराशयः ॥७०॥ गौतमः प्राह
जा उ आस्साविणी णावा, ण सा पारस्स गामिणी ।
जा णिरस्साविणी णावा, सा उ पारस्स गामिणी ॥७१॥ व्याख्या-या तुः पूत्तौ, आस्त्राविणी जलसङ्ग्राहिणी (पाठान्तरे–'सहस्साविणी' सहस्रादिभिर्जलप्रवेशान्वितैः सन्धिभिर्वर्त्तते इति) सा नौः पारस्याब्धेर्न गामिनी । या पुनर्निरास्त्राविणी नौः सा तु पुनरब्धेः पारगामिनी वर्त्तते, ततोऽहं तां निरास्राविणी नावमारूढोऽतः पारगाम्येव भविष्यामीति भावः ॥७॥
केशि:
नावा य इइ का वुत्ता, केसी गोयममब्बवी ।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥७२॥
व्याख्या है गौतम ! नौरिति का उक्ता ? एवं केशिर्गौतमं प्रत्यब्रवीत् , तत इति ब्रुवन्तं केशिं प्रति गौतम इदमब्रवीत् ॥७२।।
१. पाठान्तरतः साश्राविणी वा - सहाश्राविभिः-जलप्रवेशान्वितैः प्रकमात् सन्धिभिर्वर्तत इति कृत्वा । उत्त० बृहट्टीकायाम् ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org