________________
३६१
त्रयोविंशं केशि-गौतमीयमध्ययनम्
केशिः प्राह
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ॥६४॥ व्याख्या-प्राग्वत् । इत्युक्तमष्टमं मार्गद्वारं, नवमं महाश्रोतोनिवारणमाहमहाउदगवेगेणं, वुह्रमाणाण पाणिणं ।
सरणं गई पइट्ठा च, दीवं कं मण्णसी मुणी ॥६५॥ व्याख्या-महदुदकं यत्र तन्महोदकं महाश्रोतस्तस्य वेगस्तेनोह्यमानानां प्राणिनां शरणं तन्निवारणक्षममत एव गतिं गम्यमानत्वाद् गतिं स्थानरूपं, तत एव प्रतिष्ठां स्थिरस्थानहेतुं, चः समुच्चये, द्वीपं कं मन्यसे ? मुने ! अस्त्येव कश्चित्तादृशो द्वीपः ? इति प्रश्नयितुराशयः ॥६५॥ गौतमः प्राह
अत्थि एगो महादीवो, वारिमज्झे महालओ ।
महाउदगवेगस्स, गई तत्थ न विज्जइ ॥६६॥ व्याख्या-अस्त्येको महाद्वीपो वारिमध्ये, अब्ध्यन्तर्वर्ती अन्तर्वीप इत्यर्थः, महालयरूप उच्चस्त्वेन विस्तीर्णतया च, तत्र महाद्वीपे च महोदकवेगस्य वातैः क्षुभितस्यापि जलप्रवाहस्य गतिर्गमनमपि न विद्यते, तर्हि प्लावनस्य तु का वार्तेति संटङ्कः ॥६६।।
दीवे य इति के वुत्ते, केसी गोयममब्बवी ।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥६७॥ व्याख्या हे गौतम ! द्वीपश्च इति त्वया क उक्तः ? एवं केशिर्गौतमं प्रत्यब्रवीत् , तत इति ब्रुवन्तं केशिं प्रति गौतम इदमुत्तरमब्रवीत् ॥६७||
जरामरणवेगेणं, वुज्झमाणाण पाणिणं ।
धम्मो दीवो पइट्ठा य, गइ सरणमुत्तमं ॥६८॥ व्याख्या-जरामरण एव निरन्तरप्रवाहप्रवृत्ततया वेग उदकान्वितमहाश्रोतसः, तेनोह्यमानानामपराऽपरपर्यानयनेन प्राणिनां धर्मः श्रुतधर्मादिः, स एव द्वीपो भवाब्धिमध्यवर्ती, मुक्तिहेतुत्वाज्जरामरणवेगस्याप्यगम्यः, विवेकिनश्च तमाश्रित्य तिष्ठन्तीति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org