________________
३६०
केशिराह
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ॥ ५९ ॥
व्याख्या - प्राग्वत् ।
इत्युक्तं सप्तममश्वदमनं, अथाष्टमं पथपरिज्ञानमाहकुप्पहा बहवो लोए, जेसिं नासंति जंतवो । अद्धाणे कह वट्टंतो, तं ण णाससि गोयमा ॥ ६० ॥
श्रीउत्तराध्ययनदीपिकाटीका - २
व्याख्या - हे गौतम! कुत्सिताः पन्थानः कुपथा असन्मार्गा बहवो लोके जगति वर्तन्ते, यैः कुपथैर्नश्यन्ति सन्मार्गाद् भ्रस्यन्ति जन्तवः, ततश्चाध्वनि सन्मार्गे वर्त्तमानस्त्वं कथं न नश्यसि ? कथं सत्पथान्न व्यवसि ? ||६०||
गौतमः प्राह
जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया ।
ते सव्वे विझ्या मज्झं, तो ण णस्सामिहं मुणी ॥ ६१ ॥
व्याख्या - हे केशिमुने ! ये च मार्गेण वीतरागप्रणीतधर्माध्वना गच्छन्ति, ये चोन्मार्गं प्रति प्रस्थिता तद्विपरीताध्वनि गतास्ते सर्वे विदिता मम, ततः पथाऽपथपरिज्ञानतो न नश्याम्यहम् ॥ ६१ ॥
मग्गे य इइ के वुत्ते, केसी गोयममब्बवी ।
तओ केसि वुवंतंतु, गोयमो इणमब्बवी ॥६२॥
व्याख्या - मार्गश्च सन्मार्गकुमार्गात्मकश्च इति क उक्तः ? एवं केशिर्गौतमं प्रत्य
ब्रवीत्, तत एवं ब्रुवन्तं केशि प्रति गौतम इदमब्रवीत् ॥६२॥
कुप्पवयणपासंडी, सव्वे उम्मग्गपट्टिया ।
सम्मग्गं तु जिणक्खायं, एस मग्गो हि उत्तमो ॥ ६३ ॥ व्याख्या - कुप्रवचनेषु कापिलमतादिषु पाखण्डिनो ये व्रतिनस्ते सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि कुपथा इत्युक्तं, सन्मार्गं पुनर्विद्याज्जिनाख्यातं, एष मार्गो हिर्यस्मादुत्तमः ||६३||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org