________________
त्रयोविंशं केशि- गौतमीयमध्ययनम् तत् श्रुत्वा केशिरुवाच
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ॥५४॥
व्याख्या - प्राग्वत् ।
उक्तं षष्ठमग्निनिर्वापणं, सप्तमाश्वदमनमाह—
अयं साहसिओ भीमो, दुट्ठस्सो परिधाव | जं सि गोयम आरूढो, कहं तेण न हीरसी ॥ ५५ ॥
व्याख्या-अयं प्रत्यक्षः सहसाऽसमीक्ष्य प्रवर्त्तते इति साहसिको भीमो भयङ्करो दुष्टाश्वः परिधावति, यं दुष्टाश्वं प्रति असि भवसि त्वमारूढः, यदि वा 'जंसि'ति यस्मिन्नश्वे त्वं हे गौतम! आरूढः, कथं इति प्रश्ने [तेन इति दुष्टाश्वेन ] न ह्रियसे ? नामार्गं नीयसे ? ॥५५॥
गौतमः प्राह
पहावंतं णिगिण्हामि, सुयरस्सीसमाहिया (यं ) ।
न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥५६॥
व्याख्या–प्रधावन्तमुन्मार्गाभिमुखं यान्तं निगृह्णामि श्रुतरश्मिना समाहितः, [ बद्धः श्रुतरश्मिसमाहितस्तम् ] ततोऽसौ मे दुष्टाश्वोऽपि निग्रहणयोग्यो जात्याश्वप्राय एवोन्मार्गे न गच्छति, मार्गं च प्रतिपद्यते ॥ ५६ ॥
केशिराह
अस्से य इति के वुत्ते, केसी गोयममब्बवी ।
तओ केसिंबुवंतंतु, गोयमो इणमब्बवी ॥५७॥
३५९
व्याख्या - हे गौतम ! अश्वश्च इति क उक्तः ? एवं केशिर्गौतमं प्रत्यब्रवीत् । तत इति ब्रुवन्तं केशिं प्रति गौतम इदमुत्तरमब्रवीत् ॥५७॥
मणो साहसिओ भीमो, दुट्ठस्सो परिधावइ ।
तं सम्मं तु णिगिहामि, धम्मसिक्खाए कंथगं ॥ ५८ ॥
व्याख्या - मन एव साहसिको भीमो दुष्टश्वः प्रधावति, तं सम्यग्धर्मशिक्षया कन्थकं प्रधानाश्वमिव निगृह्णामि वशीकरोमीति ॥५८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org