________________
३५८८
श्रीउत्तराध्ययनदीपिकाटीका-२ केशिरुवाच
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं, तं मे कह सुगोयमा ॥४९॥ व्याख्या-प्राग्वत् । इत्युक्तं पञ्चमं लतोत्खननं, अथ षष्ठमग्निनिर्वापणमाह
संपज्जलिया घोरा, अग्गी चिट्ठई गोयमा ।
जे डहंति सरीरत्था, कहं विज्झाविया तुमे ॥५०॥ व्याख्या हे गौतम ! सम्प्रज्वलिता घोरा आर्षत्वादग्नयः संसारे तिष्ठन्ति, ये दहन्ति शरीरस्था आत्मानं परितापकारितया, तेऽग्नयः कथं त्वया विध्यापिता: ? ॥५०॥ गौतम आह
महामेहप्पसूत्ताओ (प्पभूयाओ) गिज्झ वारि जलुत्तमं ।
सिंचामि सययं ते उ, सित्ता नेव डहति मे ॥५१॥
व्याख्या-महामेधात् प्रसूतमुत्पन्नं, तस्मान्महाश्रोतसो गृहीत्वा वारि जलोत्तमं पानीयेषूत्कृष्टं, तेन तानग्नीन् सततं सिञ्चामि, एवं च सिक्तास्तेऽग्नयो मां नैव दहन्ति ॥५१॥
अग्गी य इइ के वुत्ते, केसी गोयममब्बवी ।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥५२॥ व्याख्या-तदा केशिश्रमणो गौतमं प्रत्यब्रवीत् , हे गौतम ! तेऽग्नय इति के उक्ताः ? तत इत्युक्तवन्तं केशिं प्रति गौतम इदमब्रवीत् ॥५२॥
कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं ।
सुयधाराभिहया संता, भिन्ना न य डहंति मे ॥५३॥ व्याख्या-कषाया अग्नयः परितापकाश्चोक्ता जिनैः, श्रुतं चेहोपचारात् कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः, शीलं च, महाव्रतानि, तपश्च, श्रुतशीलतपः, तज्जलं, महामेघस्तीर्थकृत् , महाश्रोतश्चागमः, उक्तमर्थमुपसंहरति-श्रुतस्य शीलतपसोश्च धारा इव धाराः, आक्रोशहननतर्जनधर्मभ्रंशेष्वधिकाधिकाः कर्मक्षयलाभभावनाः, ताभिरभिहतास्ताडिताः श्रुतधाराभिहताः सन्तोऽग्नयो भिन्नास्तदभिघातेन लवमात्रीकृता नैव दहन्ति माम् ॥५३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org