________________
त्रयोविंशं केशि-गौतमीयमध्ययनम्
३५७ केशिराह
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मझं, तं मे कहसु गोयमा ॥४४॥ व्याख्या-प्राग्वत् । उक्तं तुर्यं पाशद्वारं, अथ पञ्चमं लतोत्खननमाह
अंतोहिययसंभूया, लया चिठ्ठइ गोयमा ।
फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ॥४५॥ व्याख्या हे गौतम ! अन्तर्हृदयं मनोमध्ये सम्भूता लता तिष्ठति, या फलति विषभक्ष्याणि फलानि, विषवद्भक्ष्यन्ते इति विषभक्ष्याणि, पर्यन्तदारुणत्वाद्विषोपमानि फलानि, सा वल्ली तु त्वया कथमुद्धृता ? ॥४५॥ गौतमः प्राह
तं लयं सव्वसो छित्ता, उद्धरित्ता समूलियं ।
विहरामि जहानायं, मुक्को मि विसभक्खणा ॥४६॥ व्याख्या-तां लतां सर्वतश्छित्वा खण्डीकृत्योद्धृत्योत्पाट्य समूलिकां रागद्वेषादिमूलयुतां यथान्यायं विहरामि, मुक्तोऽस्मि, सुब्व्यत्ययाद्विषभक्षणाद्विषफलाहारोपमक्लिष्टकर्मणः ॥४६॥
लया य इइ का वुत्ता, केसी गोयममब्बवी ।
केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ॥४७॥ व्याख्या-हे गौतम ! लता इति का उक्ता ? एवं केशिर्गौतममब्रवीत् , अथेति ब्रुवन्तं केशि प्रति गौतम इदमब्रवीत् ॥४७॥
भवतण्हा लया वुत्ता, भीमा भीमफलोदया ।
तमुद्धित्तु जहानायं, विहरामि जहक्कमं ॥४८॥ व्याख्या-भवे तृष्णा लोभात्मका भवतृष्णा, भीमा भयदा स्वरूपतः, तथा भीमफलोदया कार्यतश्च भीमो दुःखहेतुतया फलानां क्लिष्टकर्मणामुदयो विपाको यस्याः सा, एवंविधा सा लता उक्ता । तां तृष्णावल्ली यथान्यायमुद्धृत्य मूलोन्मूलीकृत्य यथाक्रमं विहारं करोमि ॥४८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org