________________
३५६
श्रीउत्तराध्ययनदीपिकाटीका-२ शत्रून् जित्वा यथान्यायं यथोक्तनीत्यनुक्रमेण विहरामि, तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितया, अहमित्यात्मनिर्देशो, मुने इति च केश्याह्वानम् ॥३८॥
केशिराह
साह गोयम पण्णा ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ॥३९॥ व्याख्या-प्राग्वत् । इत्युक्तं तृतीयं शत्रुजयद्वारं, अथ तुर्यं पाशकर्त्तनद्वारमाह
दीसंति बहवे लोए, पासबद्धा सरीरिणो । ___ मुक्कपासो लहुब्भूओ, कहं तं विहरसि मुणी ॥४०॥
व्याख्या केशिर्वदति हे गौतममुने ! लोके संसारे बहवः शरीरिणः पाशबद्धा दृश्यन्ते, त्वं तु मुक्तपाशोऽत एव लघूभूतो वायुवत् सर्वत्राऽप्रतिबद्धतया कथं विहरसि ? ॥४०॥ गौतमः प्राह
ते पासे सव्वसो छित्ता, निहंतूणमुवायओ ।
मुक्कपासो लहुब्भूओ विहरामि अहं मुणी ॥४१॥ व्याख्या-हे केशिमुने ! तान् पाशान् सर्वशः सर्वानपि छित्वा, तथैवोपायतो निस्सङ्गादिसद्भूतभावभ्यासान्निहत्य पुनर्बन्धाऽभावो यथा स्यात्तथा विनाश्य, पश्चान्मुक्तपाशो बन्धरहितो लघूभूतः सन्नहमप्रतिबद्धविहारितया विहरामि ॥४१॥
पासा य इइ के वुत्ता, केसी गोयममब्बवी ।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥४२॥ व्याख्या-पुनः केशिर्गौतमं प्रत्यब्रवीत् , हे गौतम ! पाशाश्च इति के त्वयोक्ताः? तत इति ब्रुवन्तं केशि प्रति गौतम इदमुत्तरमब्रीत् ॥४२॥
रागद्दोसादओ तिव्वा, नेहपासा भयंकरा ।
ते छिदित्तु जहानायं, विहरामि जहक्कमं ॥४३॥ व्याख्या-रागद्वेषादयः, आदेर्मोहादयस्तीवाः स्नेहाः पुत्रकलत्रादि सम्बन्धास्ते पारवश्यहेतुया पाशा उक्ताः, अति गाढत्वाद्रागान्तर्गतत्वेऽप्येषां पृथक्कथनं, [भयङ्कराः अनर्थहेतुतया त्रासोत्पादका] यथाक्रम, क्रमो यतिविहितचरणकरणानुरूपाचारस्तदनतिक्रमेण, यथान्यायं वीतरागोपदेशेन तान् पाशान् छित्वा विहरामि साधुमार्गे ॥४३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org