SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ३५५ त्रयोविंशं केशि-गौतमीयमध्ययनम् साहु गोयम पण्णा ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ॥३४॥ व्याख्या-प्राग्वत् । उक्तं द्वितीयं लिङ्गद्वारं, अथ तृतीयं शत्रुजयद्वारमाह अणेगाण सहस्साणं, मज्झे चिट्ठसि गोयमा । ते य ते अभिगच्छंति, कहं ते णिज्जिया तुमे ॥३५॥ व्याख्या हे गौतम ! त्वमनेकेषां बहूनां सहस्राणां शत्रूणां मध्ये तिष्ठसि, ते चानेकसहस्रसङ्ख्याः शत्रवस्ते इति त्वामाश्रित्याभिगच्छन्ति धावन्ति जेतुं , कथं ते शत्रवो निर्जितास्त्वया ? ॥३५॥ इत्थं केश्युक्ते गौतमः प्राह एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ताणं, सव्वसत्तू जिणामिहं ॥३६॥ व्याख्या-एकस्मिन् शत्रौ जिते जिताः पञ्च, पञ्चसु च जितेषु जिता दश, दशधा दशप्रकारान् तु पुनः शत्रून् जित्वा सर्वशत्रूस्तदुत्तरोत्तरभेदांश्चनेकसहस्रसङ्ख्यान् जयाम्यहम् ॥३५॥ सत्तू य इइ के वुत्ते, केसी गोयममब्बवी । तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥३७॥ व्याख्या-चः पूर्ती, शत्रुरयं क उक्तः ? इति केशिर्गौतममब्रवीत् , न तु यदसौ शत्रूनपि न वेत्तीति कथं तन्मध्यगतस्त्वं तिष्ठसीत्यादिकमनेन यत् प्रागुक्तं । अन्य जनबोधार्थं सर्वा अपि ज्ञपृच्छा एताः, ततो ब्रुवन्तं केशि प्रति तु पुनर्गौतम इदमब्रवीत् ॥३७॥ एगप्पा अजिए सत्तू, कसाया इंदियाणि य । ते जिणित्ता जहानायं, विहरामि अहं मुणी ॥३८॥ व्याख्या-एक आत्मा चित्तं वा, तदभेदोपचारात् , अजितोऽनेकाऽनाप्तिहेतत्वाच्छत्रुः, अतस्तस्मिन्नेकस्मिन्नेव जिते सति जिताः पञ्च, एक आत्मा चत्वारः कषायाश्च क्रोधाद्या, एवं पञ्चसु जितेषु दश जिताः, त एव पञ्च इन्द्रियाणि स्पर्शनादीनि, चान्नोकषायाद्याः कषायाद्युत्तरोत्तरभेदाश्च जिताः, त एव सर्वेऽप्यजिताः शत्रवः, अतस्तान् Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy