________________
३५४
श्रीउत्तराध्ययनदीपिकाटीका-२ प्रमाणरहितवस्त्रधारणात्मको धर्मः प्रदर्शितः, ततो हे मेधाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपार्श्वयोर्विशेषे भेदे किं कारणं को हेतुः ? हे गौतम ! एवं द्विविधै लिङ्गे सति किं तव संशयो न भवति ? ॥२९॥३०॥
केसिं एवं बुवाणं तु, गोयमो इणमब्बवी ।
विण्णाणेण समागम्म, धम्मसाहणमिच्छियं ॥३१॥ व्याख्या-तु पुनर्गौतम एवं ब्रुवाणं केशिकुमारं मुनि प्रतीदमब्रवीत् , हे केशिमुने ! विज्ञानेन केवलेन समागम्य ज्ञात्वा यद्यस्योचितं तत्तथैव धर्मसाधनं धर्मोपकरणं वर्षाकल्पादि इष्टमनुमतं पार्श्ववीरजिनाभ्यां, तत्र श्रीवीरेण शिष्याणां, रक्तादिवस्त्रं वक्रजडत्वेन रञ्जनादिषु प्रवृत्तिरेषां दुर्निवारैव स्यात् , इति नानुज्ञातं, तथा पार्वेण च शिष्यास्तु न रञ्जनाद्यारम्भकारका इति रक्ताद्यप्यनुज्ञातम् ॥३१॥
पच्चयत्थं च लोगस्स, नाणाविहविकप्पणं ।
जत्तत्थं गहणत्थं च, लोगे लिंगप्पओयणं ॥३२॥ व्याख्या-प्रत्ययार्थं च, अमी व्रतिन इति प्रतीत्यर्थं लोकस्य, अन्यथा यथेष्टवेषमादाय विडम्बकादयोऽपि वयं वतिन इति ब्रुवीरन् , ततश्च व्रतिष्वप्यप्रतीतिः स्यात् , अतो नानाविधविकल्पनं नानाप्रकारेणोपकरणपरिकल्पनं, नानाविधं वर्षाकल्पाद्युपकरणं यतिष्वेव स्यादिति कथं न तत्प्रत्ययहेतुः ? तथा यात्रा संयमनिर्वाहस्तदर्थं, यतो वर्षाकल्पादिकं विना वृष्ट्यादौ संयमबाधैव स्यात् । तथा ग्रहणं ज्ञानं तदर्थं च, कथञ्चिच्चित्तविप्लवोत्पत्तावपि मुनिर्ज्ञानं गृह्णातु, यथाऽहं व्रतीत्येतदर्थं लोके लिङ्गस्य वेषधारणस्य प्रयोजनं प्रवर्त्तनं लिङ्गप्रयोजनमस्तीति ज्ञेयम् ॥३२॥
अह भवे पइण्णा उ, मुक्खसप्भूयसाहणे ।
नाणं च दंसणं चेव, चरित्तं चेव निच्छयं ॥३३॥ व्याख्या-अथ पुनर्भवेदेवं प्रतिज्ञा पार्श्ववीरयोः, मोक्षसद्भूतानि सत्यानि साधनानि, ज्ञानं ह्यवबोधो, दर्शनं तत्वरुचिः, चारित्रं सर्वसावद्यविरतिः, एवं ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गं, भरतादीनां लिङ्गं विनापि केवलोत्पत्तिः, इति निश्चये निश्चयनये विचार्यं । कोऽर्थः ? निश्चयो न लिङ्ग प्रत्याद्रियते, व्यवहारस्तदिच्छति ॥३३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org