________________
३५३
त्रयोविंशं केशि-गौतमीयमध्ययनम् ऽर्थप्रतिपत्तेरक्षमत्वात् , जडाश्च, पश्चिमा: पश्चिमार्हन्मुनयः, पुनर्मध्यमा मध्यमार्हतां मुनयः ऋजुप्रज्ञाः, ऋजवश्च ते प्रकर्षण जानन्ति, सुखेनोक्तमर्थं ग्राहयितुं शक्यन्ते इति ऋजुप्रज्ञाः सन्ति, तेन हेतुना धर्मो द्विभेदः कृतः, एककार्यप्रतिपन्नत्वेऽपि ॥२६॥ ___ यदि नाम पूर्वादिसाधूनामीदृशत्वं तथापि कथमेतद् द्वैविध्यमित्याह
पुरिमाणं दुव्विसोज्झो उ, चरिमाणं दुरणुपालए ।
कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालए ॥२७॥ व्याख्या-पूर्वेषां प्रथमजिनमुनीनां दुःखेन विशोध्यो निर्मलतां नेतुं शक्यो दुर्विशोध्यः कल्पः, ऋजुत्वात् कल्पाऽकल्पविधेरज्ञानात् , तुशब्द उत्तरेभ्यो गुणवत्त्वं द्योतयति, चरमाणां चरमजिनयतीनां दुःखेनानुपाल्यते इति दुरनुपालकः कल्पो यतिक्रियामार्गः, न हि ते वक्रत्वेन कुविकल्पाकुलचित्तत्वात्कथञ्चिज्जानाना अपि यथावदनुष्ठातुमीशन्ते, तु पुनर्मध्यमगानां द्वाविंशतितीर्थकरसाधूनां कल्पः सुविशोध्यः सुपालकश्च, सुखेन निर्मलीकर्तुं शक्यः, यतस्ते हि ऋजुप्राज्ञाः स्तोकेनोक्तेन बहुज्ञाः, अतः श्रीपाइँन चातुर्यामो धर्म उक्तः, महावीरेण च पञ्चव्रतात्मक उपदिष्ट इति ।।२७।। इत्थं गौतमेनोक्ते केशिराह
साहु गोयम पण्णा ते, छिन्नो मे संसओ इमे ।
अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ॥२८॥ व्याख्या-साधु शोभना हे गौतम ! प्रज्ञा बुद्धिस्ते, छिन्नस्त्वया मेऽयं संशयः, शिष्यापेक्षं चैतत् , न तु तस्य चतुर्ज्ञानवतः संशयः, अन्योऽपि वक्ष्यमाणः संशयो मम विद्यते, तं तद्विषयमर्थं मे कथय हे गौतम ! ॥२८॥ उक्तं व्रतद्वारं, अथ लिङ्गद्वारमाह
अचेलओ य जो धम्मो, जो इमो संतरुत्तरो । देसिओ वद्धमाणेणं, पासेण य महायसा ॥२९॥ एककज्जपवण्णाणं, विसेसे किं नु कारणं ।
लिंगे दुविहे मेहावी, कहं विप्पच्चओ न ते ॥३०॥ व्याख्या-श्रीवर्द्धमानेन योऽयमचेलकः प्रमाणोपेतजीर्णप्रायवस्त्रधारणात्मकः साध्वाचारः कथितः, पुनर्महायशसा पार्श्वेन च योऽयं सान्तरुत्तरः पञ्चवर्णबहुमूल्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org