________________
३५२
संसारपारगमणे १०, तमस्स य विघाडणे ११ ।
ठाणोवसंपया चेव १२, एवं बारससुक्कमे ॥३॥ [ उत्त. नि. /गा. ४५४ ] व्याख्या - तत्र केशिना शिक्षापदाख्यव्रत १ लिङ्ग २ शत्रुजय ३ पाशकर्त्तन ४ वल्लीतरूत्खनन ५ अग्निविध्यापन ६ दुष्टाश्वनिग्रह ७ मार्गपरिज्ञा ८ महाश्रोतोवारण ९ संसारपारगमन १० तमोविघटन ११ स्थान १२ द्वाराणि द्वादश पृष्टानि )
श्रीउत्तराध्ययनदीपिकाटीका - २
तत्राद्याद्वारपृच्छा—
चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुणी ॥२३॥
व्याख्या - हे गौतम ! पार्श्वेण महामुनिना तीर्थकरेण यश्चातुर्यामश्चातुर्व्रतिकोsयमस्माकं धर्म उपदिष्टः, पुनर्योऽयं धर्मो वर्द्धमानेन पञ्चशिक्षितः पञ्च महाव्रतात्मको दिष्टः कथितः ||२३||
एककज्जपवण्णाणं, विसेसे किं नु कारणं ।
धम्म दुविहे मेहावी, कहं विप्पच्चओ ण ते ॥२४॥
व्याख्या-एककार्ये मोक्षसाधनरूपे प्रपन्नयोः श्रीपार्श्वमहावीरयोर्विशेषे भेदे किं नु कारणं ? हे मेधाविन् ! एवं द्विविधे धर्मे तव कथं विप्रत्ययः संदेहो न भवति ? ||२४|| तओ केसिं बुवंतं तु, गोयमो इणमव्ववी ।
पणा समिक्ख धम्मंतत्तं तत्तविणिच्छयं ॥ २५ ॥
व्याख्या - ततः केशिं ब्रुवन्तमेव, अनेनादरातिशय आवेदितः, गौतमोऽब्रवीत् किं तदब्रवीदित्याह-प्रज्ञा बुद्धिः समीक्षते सम्यक् पश्यति, किं पश्यतीत्याह-'धम्मंतत्तं,' बिन्दुरलाक्षणिकः, ततो धर्मतत्त्वं धर्मपरमार्थं, तत्त्वानां जीवादीनां विनिश्चयो यस्मि - स्तथाविधं धर्मतत्त्वं प्रज्ञा समीक्षते, न केवलं वाक्यश्वरणादेवार्थनिश्चयः स्यात्, किं तु प्रज्ञातः ॥२५॥
पुरिमा उज्जुजडा उ, वक्कजडा य पच्छिमा ।
मज्झिमा उज्जुपन्ना उ तेण धम्मो दुहा कओ ॥२६॥
Jain Education International 2010_02
व्याख्या-1
- पूर्वे प्रथमतीर्थकृत्साधव ऋजवश्च प्राञ्जलतया, जडाश्च त एव दुःप्रतिपाद्यतया ऋजुजडाः, तुः यस्मादर्थे, वक्राश्च वक्रबोधत्वात् स्वाऽनेककुविकल्पतो
For Private & Personal Use Only
"
www.jainelibrary.org