________________
३५१
त्रयोविंशं केशि-गौतमीयमध्ययनम् तदा च
समागया बहू तत्थ, पासंडा कोउगासिया । गिहत्थाण अणेगाओ, साहस्सीओ समागया ॥१९॥ व्याख्या-समागता मिलितास्तत्र बहवः पाखण्डाः पाखण्डव्रतयोगात् पाखण्डा: शेषव्रतिनः कौतुकाश्रिताः (पाठान्तरे–'कोउगा मिया' कौतुकान्मृगा इव, अज्ञानत्वात् , प्राकृतत्वादमितकौतुका वा) तथैव गृहस्थानामनेकाः सहस्रयः सूत्रत्वात् सहस्राणि समागताः ॥१९॥
देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा ।
अदिस्साणं य भूयाणं, तत्थ आसी समागमो ॥२०॥ व्याख्या-देवा वैमानिकाः, दानवा भवनपतयः, [गन्धर्वाः] यक्षा राक्षसाः किन्नरास्तत्र समागताः, च पुनरदृश्यानां भूतानां तत्र समागमः सङ्गम आसीत् ।।२०।।
अथ तयोर्जल्पः
पुच्छामि ते महाभाग, केसी गोयममव्ववी ।
तओ केसीं बवंतं त, गोयमो इणमव्ववी ॥२१॥ व्याख्या-पृच्छामि 'ते' त्वां हे महाभाग ! अतिशयाचिन्त्यशक्ते ! इति केशी गौतममब्रवीत् , ततः केशि 'तु' पुनर्बुवन्तं गौतम इदमब्रवीत् ।।२१।।
पुच्छ भंते जहिच्छते, केसिं गोयममव्ववी ।
तओ केसी अणुण्णाओ गोयमं इणमव्ववी ॥२२॥ व्याख्या हे भदन्त ! हे पूज्य ! 'ते' तव यथेच्छं यत्तव चित्तेऽवभासते तत्त्वं पृच्छ! इति केशिकुमारं प्रति गौतमोऽब्रवीत् । अत्र 'गौतमम्' इति प्राकृतत्वात् प्रथमास्थाने द्वितीया । ततो गौतमवाक्यादनन्तरं केशिकुमारो गौतमेनानुज्ञातः सन् गौतमं प्रति इदं वक्ष्यमाणं वचनमब्रवीत् ॥२२।।
(सिक्खावएसु १ लिंगे य २, सत्तूणं च पराजए ३ । पासावगत्तणे चेव ४, तंतुद्धरणबंधणे ५ ॥१॥ [ उत्त. नि./गा.४५२] अगणीनिव्वावणे चेव ६, तहा दुट्ठस्स निग्गहे ७ ।
तहा पहपरिण्णा य ८, महासोयनिवारणे ९ ॥२॥ [उत्त. नि./गा.४५३] १. सिक्खावए अ ।। उत्त० नि० गा० ४५२ मध्ये । सम्पा.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org