________________
३५०
श्रीउत्तराध्ययनदीपिकाटीका-२ अह ते तत्थ सीसाणं, विण्णाय पवियक्कियं ।
समागमे कयमइ, उभओ केसिगोयमा ॥१४॥ व्याख्या-अथ तौ तत्र श्रावस्त्यां शिष्याणां निजनिजक्षुल्लकानां प्रवितर्कितं विकल्पं विज्ञाय समागमे मिलने कृतमती उभौ केशिगौतमावभूताम् ।।१४।।
गोयमो पडिरूवनू, सीससंघसमाउले ।
जिटुं कुलमवेक्खंतो, तिंदुयं वणमागओ ॥१५॥ व्याख्या-गौतमः प्रतिरूपं विनयं यथार्हत्प्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञः, शिष्यसङ्घसंयुक्तः, ज्येष्ठं प्रथमव्रतभावितया कुलं पार्श्वनाथस्य सन्तानमपेक्ष्यमाणो गणयन् तिन्दुकं वनं समागतः ॥१५॥
केसीकुमारसमणे, गोयमं दिस्समागयं ।
पडिरूवं पडिवत्तिं, सम्मं संपडिवज्जई ॥१६॥ व्याख्या-अथ केशीकुमारश्रमणो गौतममागतं दृष्ट्वा प्रतिरूपामुचितां प्रतिपत्तिरूपामभ्यागतकर्त्तव्यरूपां सम्यक् सम्प्रतिपद्यते करोतीति ॥१६॥
यथा
पलालं फासुयं तत्थ, पंचमं कुसतणाणि य ।
गोयमस्स निसिज्जाए, खिप्पं स पणामए ॥१७॥ व्याख्या-पलालं प्रासुकं निर्जीवं, तत्र तिन्दुकोद्याने, वचनव्यत्ययात् पञ्चमानि कुशतृणानि, चादन्यान्यपि साधुयोग्यानि तृणानि, पञ्चमत्वं चैषां पलालभेदापेक्ष्यं, ते चामी-“साली वीही कोद्दव रालगरन्ने तिणाई च," [ ] गौतमस्य निषद्यायै उपवेशनार्थं क्षिप्रं तूर्णं स प्रणामतेऽर्पयति ॥१७॥
केसीकुमारसमणो, गोयमे य महायसे ।
उभओ निसन्ना सोहंति, चंदसुरसमप्पभा ॥१८॥ व्याख्या-तदा केशीकुमारश्रमणश्च पुनर्गौतमो महायशाः, एतावुभौ तत्र तिन्दुकोद्याने निषण्णौ चन्द्रसूर्यसमप्रभौ शोभेते ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org