________________
३४९..
त्रयोविंशं केशि-गौतमीयमध्ययनम्
उभओ सीससंघाणं, संजयाणं तवस्सिणं ।
तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥ व्याख्या-उभयोः केशिगौतमयोः शिष्यसङ्घानां शिष्यवृन्दानां संयतानां तपस्विनां गुणवतां ज्ञानादिवतां तायिनां त्रायिणां वा षड्कायानां तत्र श्रावस्त्यां वक्ष्यमाणा चिन्ता समुत्पन्ना परस्परविलोकनादिति शेषः ॥१०॥ यथा
केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो।
आयारधम्मपणिही, इमा वा सा व केरिसी ॥११॥ व्याख्या कीदृशः किंरूपो ? वा विकल्पे, 'इमो'त्ति अयमस्य सम्बन्धी, धर्मो महाव्रतानि, अयं वा गौतमगणभृच्छिष्याणां धर्मः कीदृशः ? आचारो वेषधारणादिर्बाह्यः क्रियाकलापः, स एव सुगतिधारणाद्धर्मः, प्राप्यते हि बाह्यक्रियामात्रादपि नवमग्रैवेयकं. ततस्तस्य प्रणिधिर्व्यवस्था, आचारधर्मप्रणिधिरियं वा, स चाचारः सर्वज्ञोक्तयोर्द्वयोर्धर्मयोरस्ति, अतस्तत्साधनानां च भेदे हेतुं ज्ञातुमिच्छामः ॥११॥
चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ ।
देसिओ वद्धमाणेणं, पासेण य महामुणी ॥१२॥ . व्याख्या-चातुर्यामश्चतुर्महाव्रतैर्युक्तो यो धर्मो देशितः श्रीपाइँन, तथा यश्चायं पञ्च शिक्षाः प्राणातिपातादिविरत्याधुपदेशा यस्मिन्नसौ पञ्चशिक्षितो धर्मो वर्द्धमानेन देशितः, सुब्व्यत्ययान्महामुनिनेत्युभयोरपि विशेषणं, महामुनीनां प्रति वा, अन्योर्विशेषे किं कारणम् ? ॥१२॥ एवं धर्मविषये संशय उक्तः, अथाचारप्रणिधिसंशयमाह
अचेलओ य जो धम्मो, जो इमो संतरुत्तरो ।
एककज्जपवन्नाणं, विसेसे किं नु कारणं ॥१३॥ व्याख्या-अचेलकश्च यो धर्मो वर्द्धमानेनोक्तः, यश्चायं सान्तराणि श्रीवीरशिष्यापेक्षया कदाचिन्मानवर्णविशेषितानि, उत्तराणि च बहूमूल्यतया प्रधानानि वस्त्राणि यत्रासौ सान्तरोत्तरो धर्मः श्रीपार्वेनोक्तः, एकमुक्तिकार्यप्रवृत्तयोः पार्श्ववीरयोर्विशेषे उक्तरूपे किं नु वितर्के कारणं ? एवं तेषां चिन्तोत्पत्तिज़ैया ॥१३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org