________________
३४८
श्रीउत्तराध्ययनदीपिकाटीका-२ तिंदुयं णाम उज्जाणं, तंमि णगरमंडले ।
फासुए सिज्जसंथारे, तत्थ वासं उवागए ॥४॥ व्याख्या-तिन्दुकनामोद्यानं, तस्याः श्रावस्त्या नगरमण्डले पुरपरिसरे, प्रासुके स्वाभाविकाङ्गतुकसत्त्वरहिते, शय्या वसतिस्तस्यां संस्तारको वस्त्रनिषद्या तस्मिन् , तत्र तदुद्याने वासमवस्थानमुपागतः प्राप्त इति ॥४॥
अह तेणेव कालेणं, धम्मतित्थयरे जिणे ।
भयवं वद्धमाणु त्ति, सव्वलोगंमि विस्सुए ॥५॥ व्याख्या-अथ तस्मिन्नेव काले धर्मतीर्थकरो जिनो भगवान् श्रीवर्द्धमान इति सर्वलोके विश्रुतोऽभूत् ॥५॥
तस्स लोगप्पईवस्स, आसि सीसे महायसे ।
भयवं गोयमो णामं, विज्जाचरणपारए ॥६॥ व्याख्या-तस्य लोकप्रदीपस्य शिष्यो महायशा भगवान् विद्याचरणपारगः गौतमगोत्रीय इन्द्रभूति मासीत् ॥६॥
बारसंगविऊ बुद्धे, सीससंघसमाउले ।
गामाणुगामं रीयंते, से वि सावत्थीमागए ॥७॥ व्याख्या-द्वादशाङ्गवित् , बुद्धो ज्ञाततत्त्वश्चतुर्ज्ञानी शिष्यसङ्गसमाकुलस्तत्र ग्रामानुग्रामं विहरन् स गौतमोऽपि श्रावस्त्यां समागतः ॥७॥
कोट्टगं णाम उज्जाणं, तम्मि णगरमंडले ।
फासुए सेज्जसंथारे, तत्थ वासमुवागए ॥८॥ व्याख्या-तस्याः श्रावस्त्या नगर्या मण्डले परिसरे क्रोष्टकं नाम उद्यानं वर्तते, तत्र प्रासुके शय्यासंस्तारके स वासमवस्थानमुपागतः प्राप्तः ।।८।।
केसीकुमारसमणे, गोयमे य महायसे ।
उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥९॥ व्याख्या-उभावपि केशीकुमारश्रमणो गौतमश्च महायशसौ आलीनौ मनोवाक्कायगुप्तिष्वाश्रितो, यद्वाऽालीनौ पृथगवस्थानेनाऽन्योऽन्यमाश्लिष्टौ, सुष्ठसमाधिमन्तौ च तत्र श्रावस्त्यां व्यहार्टाम् ।।९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org