________________
त्रयोविंशं केशि-गौतमीयमध्ययनम् ॥
चित्तधृतिश्च गौतमपार्वे केशिवत् कार्या, इति केशिगौतमीयं त्रयोविंशाध्ययनमाह
जिणे पासि त्ति नामेणं, अरहा लोगपूइए ।
संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ॥१॥ व्याख्या-जिनः परीषहोपसर्गजित् , पार्श्व इति नामाभूत् , स चान्योऽपि स्यादित्याह्वः, अतोऽर्हति देवेन्द्रादिकृतां पूजामित्यर्हन् , लोकपूजितः, सम्बुद्धस्तत्वज्ञानादात्माऽस्येति सम्बुद्धात्मा, च पूर्ती, सर्वज्ञः सद्रव्यपर्यायवित् , तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थं, तत्करणशीलो धर्मतीर्थकरो, जिनो जितसर्वकर्मा, मुक्त्यवस्थापेक्ष्यमेतत् । (पाठान्तरे-अरिहा लोयविस्सुए, सव्वन्नू सव्वदंसी य,
सम्बुद्धप्पा य सव्वन्नू, धम्मतित्थस्स देसए) ॥१॥ तस्स लोगप्पईवस्स, आसि सीसे महायसे ।
केसी कुमारसमणे विज्जाचरणपारगे ॥२॥ व्याख्या-तस्य सर्ववस्तुप्रकाशकतया लोकप्रदीपस्यासीच्छिष्यो बहयशाः केशी केशीनामा कुमारोऽपरिणीततया, श्रमणस्तपस्वितया कुमारश्रमणो विद्याचरणयोर्ज्ञानचारित्रयोः पारगः ॥२॥
ओहिनाणसुए बुद्धे, सीससंघसमाउले ।
गामाणुगामं रीयंते, सावत्थि णगरिमागए ॥३॥ व्याख्या-सुब्व्यत्ययात् अवधिज्ञानश्रुताभ्यां "मइपुव्वे जेण सुयं" [ ] इत्यागमान्मतिपूर्वत्वात् श्रुतस्य, मत्या च मनोज्ञानेन चावबुद्धो ज्ञातहेयादेयभावः, शिष्यसङ्घन समाकुलो वृतो ग्रामानुग्रामं रीयमाणो विहरन् श्रावस्ती नगरीमागतः ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org