________________
३६६
श्रीउत्तराध्ययनदीपिकाटीका-२ शयोत्पन्नकीर्तिपरिपूरितदिग्गणगगनमण्डलं एवंविधं श्रीगौतमं गणधरं प्रति शिरसाभिवन्द्य ॥८६॥
व्याख्या-पूर्वस्याहतो युगादीशस्य प्रथमार्हतो मार्गे, पश्चिमे पश्चिमार्हन्मार्गे श्रीवीरप्रभोर्मार्गे शुभावहे कल्याणप्रापके मार्गे, तत्रेति तिन्दुकोद्याने स पञ्चमहाव्रतोपेतं धर्म प्रतिपद्यतेऽङ्गीकरोति तत्त्वज्ञत्वात् , पूर्वं तेन चातुर्यामो धर्मो भावतः प्रपन्नोऽभूत् ।।८७।।
अथाध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गफलमाह
केसीगोयमओ निच्चं, तंमि आसी समागमे ।
सुयसीलसमुक्करिसो, महत्थत्थविणिच्छओ ॥८८॥ व्याख्या-'केसीगोयमओ' इति केशिगौतमावाश्रित्य नित्यं 'तंमि'त्ति तत्पुर्या तस्मिन् प्रकृतस्थाने आसीत् समागमे मीलके श्रुतशीलसमुत्कर्षो ज्ञानचरणप्रकर्षः, तथा महार्था महाप्रयोजना मुक्तिसाधकत्वेन येऽर्थाः शिक्षाव्रताद्यास्तेषां विनिश्चयो निर्णयः शिष्याणां येषां । यद्वा 'केसित्ति सुब्ब्यत्ययात् केशेर्वा गौतमतः ॥८८।।
तदा च
तोसिया परिसा सव्वा, समग्गं समुवट्ठिया ।
संथुया ते पसीयंतु, भयवं केसीगोयमो ॥८९॥ त्ति बेमि व्याख्या-तोषिता पर्षत् सदेवमनुजासुरा सर्वा, सन्मार्ग मुक्तिपथं समुपस्थिता (पाठान्तरे-पर्युपस्थिता वा, सन्मार्ग प्रत्युद्यताऽभूत्) एवं पर्षदः फलमुक्तं । इत्थं तद्वत्तवर्णनेन तयोः स्तवमुक्त्वा स्वाशयमाह-संस्तुतौ सम्यक् स्तुतौ तौ प्रसीदतां ! असत्याऽमृषागिरा चित्तप्रसत्तये स्तां भगवत्केशिगौतमौ । इति समाप्तौ, ब्रवीमीति प्राग्वत् ।।८९।।
इति त्रयोविंशं केशिगौतमीयमध्ययनमुक्तम् ॥२३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org