________________
द्वाविंशं रथमीयमध्ययनम्
कोहं माणं निगिहित्ता, माया लोभं च सव्वसो । इंदियाई वसे काउं, अप्पाणं उवसंहरे ॥४७॥ तीसे सो वयणं सोच्चा, संजयाए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥४८॥
व्याख्या-अथ स रथनेमिस्तस्या राजीमत्याः संयतायाः साध्व्याः सुभाषितं अनुशिष्टिरूपं संवेगजनितत्वेन सुभाषितं वचनं श्रुत्वा क्रोधं मानं मायां लोभं च सर्वथा निगृह्य, च पुनरिन्द्रियाणि वशीकृत्यात्मानमुपसंहरति स्थिरीकरोति । अङ्कुशेन च यथा नागः पथि व्रजति, तथा धर्मे चारित्रधर्मे स सम्प्रतिपतितः संस्थितस्तद्वचसेति ।
यथा नूपुरपण्डिताकथायां राज्ञा मण्ठो हस्ती देवी च मारणाय शृङ्गात् पातयितुं छिन्नकटकाद्रौ चाटितानि तदा लोकः पशोराज्ञाकर्तुः को मन्तुरिती भरक्षायै नृपं व्यजिज्ञपत्, नृपे चाऽमन्वाने मेण्ठ इभं क्रमात् त्रिद्वयेकांह्रिस्थमधारयत्, हाहारवपरैः पौरैर्विज्ञप्तो नृपो गजरत्नमरक्षयत् । ततो मेण्ठस्तावद्भुवं गतमपि तं शनैः शनैर्न्यवर्त्तयत्, गिरेरुदतारयत्, तथा यमपीति ॥ ४७ ॥ ४८ ॥
अथ स कीदृशः स्थिरोऽभूत्तदाह
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ ।
सामन्नं निच्चलं फासे, जावज्जीवं दढव्व ॥ ४९ ॥
३४५
व्याख्या - मनोगुप्तो गुप्तमना तथा वचोगुप्तो गुप्तवाक् तथैव कायगुप्त एवं गुप्तित्रयसहितः, पुनर्जितेन्द्रियः, एतादृशो रथनेमिर्यावज्जीवं दृढव्रतः सन् श्रामण्यं चारित्रधर्मं निश्चलं यथा स्यात्तथा स्पृशति सम्यक् क्रियानुष्ठानेन पालयति ॥४९॥
द्वयोः क्रियाफलमाह
उग्गं तवं चरित्ताणं, जाया दुन्नि वि केवली ।
सव्वं कम्मं खवित्ताणं, सिद्धि पत्ता अणुत्तरं ॥५०॥
व्याख्या - उग्रं कर्मरिपुदारणतया तपोऽनशनादि चरित्वा जातौ द्वावपि रथनेमिराजीमत्यौ केवलिनौ, क्रमेण च सर्वाणि कर्माणि क्षपयित्वा पुनस्तावनुत्तरां सर्वोत्कृष्टां सिद्धि मोक्षगतिं प्राप्तौ ॥५०॥
रहनेमिस्स भगवओ, गिहत्थत्ते होंति चउरवाससया ।
संवच्छर छउमत्थो, पंचसए केवली जाओ ॥१॥ [ उत्त. नि./गा. ४४६ ]
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org