________________
३४४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या हे अयशःकामिन् ! दुराचारावाञ्छया धिगस्तु ते पौरुषं, यद्वा तव यशो महाकुलत्वादभूत् , अधुना हे कामिन् ! धिगस्तु ते, यस्त्वं जीवितकारणादसंयमजीवितहेतोर्वान्तं श्वा इव त्यक्तमापातुमिच्छसि, दीक्षाङ्गीकारात्त्यक्तान् भोगान् पुनरापातुमिवापातुं भोक्तुमिच्छसि, अतः श्रेयः कल्याणं ते मरणं भवेन्न तु वान्तापानं, तदनासेवने कदाचिन्मरणं स्यात्ततोऽपि न दोषः, यतः
विज्ञाय वस्तु निर्व, कृत्वा गृह्णन्ति किं क्वचित् पुरुषाः । वान्तं पुनरपि भुङ्क्ते, न च सर्वः सारमेयोऽपि ॥१॥[ ] ॥४३॥ अहं च भोगरायस्स, तं च सि अंधगवण्हिणो ।
मा कुले गंधणा होमो, संजमे निहुओ चर ॥४४॥ व्याख्या-राजीमती वदति, अहं, चः पूर्ती, भोजराजस्योग्रसेनस्य सुतास्मि, त्वं चान्धकवृष्णेः सुतः, कुले आवां गन्धनानां साधमानां कुले माभूव, तच्चेष्टितानुकारित्वात् , ते वान्तमपि विषं ज्वलद्वह्निभीरवः पुनरपि पिबन्ति । "सप्पाणं दो जाइओ, गन्धणा अगन्धणा य, तत्थ गन्धणा नाम जे डसिए मंतेहिं आकड्डिआ तं विसं वणमुहाउ आवियन्ति, अगन्धणा पुण अवि मरणं अज्झवसन्ति, न य वन्तमावियन्ति," [ ] ततः संयमं निभृतः स्थिरः सन् चरासेवस्व ! ॥४४॥
जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ ।
वायाविद्धो व्व हडो, अट्ठिअप्पा भविस्ससि ॥४५॥ व्याख्या-हे मुने ! यदि त्वं भावं भोगाभिलाषं करिष्यसि यां यां सुरूपां नारी दृष्ट्वा भोगाभिलाषं करिष्यसि, तदा त्वं वाताविद्धो वायुना प्रेरितो हड इव शेवालनामवनस्पतिविशेष इवाऽस्थितात्माऽस्थिरस्वभावो भविष्यसि ॥४५।।
गोवालो भंडवालो वा, जहा तद्दवऽणिस्सरो।
एवं अणिस्सरो तं पि, सामन्नस्स भविस्ससि ॥४६॥ व्याख्या-गोपालो यो गाः पालयति, भाण्डपालो योऽन्यभाण्डानि भाटकादिना पालयति (पाठान्तरे-दण्डपालो वा पुरारक्षक:) यथा तद्रव्यस्य गवादेरनीश्वरोऽप्रभुविशिष्टतत्फलभोगाभावात् , एवमनीश्वरस्त्वं [श्रामणस्य] दीक्षाया भविष्यसि, भोगेच्छास्तत्फलस्यापि विशिष्टस्याऽभावादिति ॥४६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org