________________
३४३
द्वाविंशं रथनेमीयमध्ययनम् ततः सा
दट्ठण रहनेमिं तं, भग्गुज्जोयपराइयं । ..
राईमई असंभंता, अप्पाणं संवरे तहिं ॥३९॥ व्याख्या-तदा राजीमती तं रथनेमि भग्नोद्योगपराजितं भग्नोद्योगोऽपगतोत्साह: संयमे, स चासौ पराजितश्चाभिभूतः स्त्रीपरीषहेण तं भग्नोद्योगपराजितं दृष्ट्वा विलोक्य, असम्भ्राता नाऽयं बलादकार्यं करिष्यतीत्याशयेनाऽत्रस्ता, तत्र गुहायां आत्मानं संवरेत् चीवरैराच्छादितवती ॥३९॥
अह सा रायवरकन्ना, सुट्ठिया नियमव्वए।
जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥४०॥ व्याख्या-अथ सा राजवरकन्या राजीमती नियमव्रते सुस्थिता, नियमे शौचस्वाध्यायादौ, व्रते च पञ्चमहाव्रतरूपे सुष्टुप्रकारेण स्थिरा, यद्वा इन्द्रियनोइन्द्रियसंवरे दीक्षायां च निश्चला सती, जातिं कुलं च शीलं रक्षमाणा तकं तं प्रति वदति ॥४०॥
जइ सि रूवेण वेसमणो, ललिएण नलकूबरो ।
तहा वि ते न इच्छामि, जइ वि सक्खं पुरंदरो ॥४१॥ व्याख्या-हे रथनेमे ! यदि त्वं रूपेण वैश्रमणो धनदोऽसि, च ललितेन सविलासचेष्टितेन नलकूबरो देवविशेषोऽसि, तथापि 'ते' इति त्वां नेच्छामि नाभिलषामि, साक्षात् समक्षः पुरन्दर इन्द्रो रूपाद्यनेकगुणाश्रयो यद्यसि । रूपाभिमान्ययमित्येवमुक्तः ॥४१॥
पक्खंदे जलियं जोइं, धूमकेओ दुरासयं ।
नेच्छंति वंतयं भोत्तुं, कुले जाया अगंधणे ॥४२॥ व्याख्या-हे रथनेमे ! अगन्धने कुले जाता अगन्धकुलोत्पन्नाः सर्पा वान्तं विषं भोक्तुं पुनः पश्चाद् गृहीतुं नेच्छन्ति न वाञ्छन्ति । ज्वलद्धूमकेतोरग्नेर्योतिर्चाला प्रस्कन्देदिति प्रस्कन्देयुः, प्राकृतत्वाद्बहुवचने एकवचनं । अगन्धजातीयाः सर्पा ज्वलदग्निज्वालां प्रविशेयुः, न तूद्गीर्णं विषं पश्चाद् गृह्णन्ति, कीदृशं ? धूमकेतो?तिर्दुरासदं दुःसहमित्यर्थः ॥४२॥
धिरत्थु तेऽजसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥४३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org