________________
३४२
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-चीवराणि सङ्घाट्यादिवस्त्राणि विस्तारयन्ती शरीरादुत्तार्येतिशेषः, यथाजाताऽनाच्छादिताङ्गा साभूत् , इत्येवंरूपां तां दृष्ट्वा रथनेमिर्भग्नचित्तः संयम प्रत्यभूत् , एवंविधः स पश्चात्तयापि दृष्टः, चेत् पूर्वं दृष्टो भवेत्तदा सा तत्र न विशेदिति ॥३४॥
भीया य सा तहिं दटुं, एगते संजयं तयं ।
बाहाहिं काउं संगोफं, वेवमाणी णिसीयइ ॥३५॥ व्याख्या-मा कदाचिदसौ शीलभङ्गं कुर्यादिति भीता सा तत्र गुहायां दृष्ट्वा एकान्ते निर्जने संयतं तकं रथनेमि, बाहुभ्यां कृत्वा सङ्गोफ मिथो बाहुगुण्ठनं स्तनोपरिमर्कटबन्धं वेपमाना शीलभङ्गभयात् कम्पमाना निषीदति, तदाश्लेषादिवारणार्थम् ॥३५॥
अह सो वि रायपुत्तो उ समुद्दविजयंगओ ।
भीयं पवेइयं दर्दू, इमं वक्कमुदाहरे ॥३६॥ व्याख्या-अथ सोऽपीति स पुना राजपुत्रो रथनेमिः समुद्रविजयाङ्गजो भीतां अत एव च कम्पमानां तां राजीमती दृष्ट्वा इदं वाक्यमुदाहरदुक्तवानिति ॥३६॥ किं तदित्याह
रहनेमी अहं भद्दे, सुरूवे चारुभासिणि ।
ममं भयाहि सुतणु ण ते पीला भविस्सई ॥३७॥ व्याख्या हे भद्रे ! कल्याणि ! अहं रथनेमिरस्मि, अत्राहमिति निजरूपवत्त्वादिमानात् स्वप्रज्ञापनं ध्वनितं । हे सुरूपे ! सुन्दराकारे ! हे चारुभाषिणि ! मधुरवचनालापिनि ! च हे सुतनु ! कोमलाङ्गि ! अवैतावन्ति सम्बोधनानि तन्मदनौत्सुक्यसूचकानि । 'मम' इति मां भजस्व भर्तृत्वेनाङ्गीकुरु ? 'ते' तव पीडा दुःखं न भविष्यति, सुखहेतुत्वाद्विषयस्य । यद्वा ससम्भ्रमां तां दृष्ट्वेवमाह-'ममं भयाहि'त्ति मा मा भैषीः । पीडाशङ्कया भयं स्यादित्येवमुक्तम् ॥३७॥
एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लहं ।
भुत्तभोए तओ पच्छा, जिणमग्गं चरिस्सामो ॥३८॥ व्याख्या-एह्यागच्छेति, 'ता' तस्मात्तावद्वा भोगान् भुञ्जवहे, मानुष्यं खुः निश्चितं सुदुर्लभं, तदेतदाप्तावावां भोगफलं लभावहे । भुक्तभोगौ ततः पश्चाद्वार्द्धक्ये जिनमार्गं जिनोक्तमुक्तिपथं चरिष्याव इति ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org