________________
द्वाविंशं रथनेमीयमध्ययनम्
३४१ अथ प्रभुरन्यत्र विहृत्य पुनस्तत्रागात् , तावत् सा तथैवास्थात् , केवलोत्पत्तेश्चार्हद्देशनां श्रुत्वा गाढवैराग्या सा
अह सा भमरसंकासे, कुच्चफणगपसाहिए ।
सयमेव लुंचइ केसे, धिइमंताववस्सिया ॥३०॥ व्याख्या-अथ सा भ्रमरसङ्काशान् कृष्णान् , कुञ्चिततया कूर्चफनकप्रसाधितान् , कूर्चको गूढकेशोन्मोहको वंशमयः, फनकः कङ्कतकस्ताभ्यां प्रसाधितान् , एवंविधान् केशान् धृतीमती व्यवसिता धर्मं कर्तुं स्थिरीभूता स्वयमेव स्वाम्यनुज्ञया लुञ्चति ॥३०॥ तत्प्रव्रज्याप्रतिपत्तौ
वासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं ।
संसारसागरं घोरं, तर कण्णे लहुं लहुं ॥३१॥ व्याख्या-वासुदेवश्च, णं अलङ्कारे, तां लुप्तकेशां च जितेन्द्रियां साध्वी प्रति भणति हे कन्ये ! त्वं घोरं संसारसागरं लघु लघु त्वरितं त्वरितं तरोल्लङ्घयेति, सम्भ्रमे द्विरुक्तिः ॥३१॥ ततः
सा पव्वइया संती, पव्वावेसी तहिं बहुं ।
सयणं परियणं चेव, सीलवंता बहुस्सुया ॥३२॥ व्याख्या शीलवन्ती च बहुश्रुता सा राजीमती प्रव्रजिता सती तत्र द्वारिकायां बहून् स्वजनान् स्वज्ञातीन् स्त्रीजनान् पुनः परिजनान् प्रावाजयत् ॥३२।।
गिरिं रेवययं जंती, वासेणोल्लाउ अंतरा ।
वासंते अंधयारंमि, अंतो लयणस्स सा ठिया ॥३३॥ व्याख्या-अथान्यदा सा राजीमती स्वामिनत्यै रैवतं गिरिं प्रति यान्ती, वर्षति मेघे अन्धकारे दृग्प्रचारे निरुद्धे सति, अन्तराऽर्धपथे वर्षाभिरुल्ला आर्द्रा क्लिन्नसर्वचीवरा लयनस्यान्तर्गिरिगह्वरे स्थिता ॥३३।। तत्राग्रे रथनेमिरात्तदीक्षः स्थितोऽस्ति, तया तु स न दृष्ट:
चीवराणि विसारंती, जहाजाय त्ति पासिया । रहनेमी भग्गचित्तो, पच्छा दिट्ठो य तीइ वि ॥३४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org