SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३४० श्रीउत्तराध्ययनदीपिकाटीका-२ अह सो सुगंधगंधिए, तुरियं मउयकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहि समाहिए ॥२४॥ व्याख्या-अथ स सुगन्धिगन्धकान् स्वभावतः सुरभिगन्धान् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव केशान् पञ्चमुष्टीभिः समाधिमान् लुञ्चते । वासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं । इच्छियमणोरहे तुरियं, पावेसु तं दमीसर ॥२५॥ व्याख्या-वासुदेवश्चात्समुद्रविजयाद्याः, लुप्तकेशं च जितेन्द्रियं श्रीनेमि प्रति भणति, भो दमीश्वर ! इप्सितमनोरथं मुक्तिरूपं त्वरितं शीघ्रं प्राप्नुहीति ॥२५॥ णाणेणं दंसणेणं च, चरित्तेणं तवेण य । खंतीए मुत्तीए, वद्धमाणो भवाहि य ॥२६॥ व्याख्या-पुनस्त्वं ज्ञानेन, दर्शनेन, चारित्रेण, तपसा, क्षान्त्या मुक्त्या निर्लोभत्वेन च वर्धमानो वृद्धिभाग् भव ! ॥२६॥ एवं ते रामकेसवा, दसारा य बहुजणा । अरिट्ठनेमिं वंदित्ता, अइगया बारगापुरिं ॥२७॥ व्याख्या-एवं ते रामकेशवदशाश्चिान्येऽपि बहवो जना अरिष्टनेमि वन्दित्वा द्वारिकां पुरीं प्रत्यतिगताः प्रविष्टा इति ॥२७॥ सोऊण रायवरकण्णा, पव्वज्जं सा जिणस्स उ । नीहासा य निराणंदा, सोगेण य समुच्छया ॥२८॥ व्याख्या-सा राजवरकन्या उग्रसेननृपपुत्री राजीमती जिनस्य श्रीनेमिनाथस्य प्रव्रज्यां दीक्षां श्रुत्वा निर्हासा हास्यरहिता च पुनर्निरानन्दा गतप्रमोदा शोकेन च समवसृता व्याप्ताऽभूत् ॥२८।। राइमई विचिंतेइ, धिरत्थु मम जीवियं । जाहं तेणं परिचत्ता, से यं पव्वइउं मम ॥२९॥ व्याख्या-ततः सा राजीमती विचिन्तयति मम जीवितं प्रति धिगस्तु, याऽहं तेन श्रीनेमिनाथेन परित्यक्ता, तस्या ममाथ प्रव्रजितुं दीक्षां ग्रहीतुं श्रेयः, येनान्यभवेऽपि नैव दुःखिनी स्यामिति ॥२९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy