SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ द्वाविंशं रथनेमीयमध्ययनम् जइ मज्झ कारणा एए, हिम्मिहंति बहुजिया । ण मे एयं तु निस्सेयं, परलोए भविस्सइ ॥१९॥ व्याख्या-यदि मम कारणान्मद्विवाहे भोजने एते बहुजीवा हनिष्यन्ते, तदा न मे एतज्जीवहननं, तुः एवार्थे, नैव निःश्रेयसं कल्याणं परलोके भविष्यति । परलोकभीरुत्वस्यत्यन्ताभ्यस्ततयैवैवं कथनं, अन्यथाऽर्हतश्चरमदेहत्वाद् ज्ञानित्वाच्च कुत ईदृक् चिन्ता ? ॥१९॥ एवं ज्ञातार्हदाकूतेन सारथिना मोचितेषु सत्त्वेषु परितोषितोऽर्हन् सो कुंडलाण जुयलं, सुत्तगं च महायसो । आभरणाणि य सव्वाणि, सारहिस्स पणामए ॥२०॥ व्याख्या-स महायशा नेमिकुमारः कुण्डलयोर्युगलं, सूत्रकं कटीदवरकं च पुनः सर्वाण्याभरणानि विभूषणानि सारथये प्रणामयति ददातीति ।।२०।। मणपरिणामे य कओ, देवा जहोइयं समोइण्णा । सव्वड्डीए सपरिसा, निक्खमणं तस्स काउं जे ॥२१॥ व्याख्या-अर्हता मनसा परिणामो दीक्षां प्रति कृतः, यथोचितमौचित्याऽनतिक्रमेण, देवा लोकान्तिकदेवाः समवतीर्णाः, सर्वद्धा सपर्षदो बाह्यपर्षदोपेताः, निष्क्रमणं निष्क्रमणमहं तस्य श्रीनेमेः कर्तुं, 'जे' पूतौ ॥२१॥ देवमणुस्सपरिवुडो, सिवियारयणं तओ समारूढो । निक्खमिय बारगाओ, रेवयंमि ठिओ भयवं ॥२२॥ व्याख्या-ततोऽनन्तरं भगवान् देवमनुष्यपरिवृतस्तथा देवकृतमुत्तरकुरुनामशिबिकारत्नं समारूढो द्वारिकातो निःक्रम्य रैवते उज्जयन्ते स्थितो गमनान्निवृत्तः ॥२२॥ उज्जाणं संपत्तो, उइण्णो उत्तमाओ सीयाओ । साहस्सीए परिवुडो, अह निक्खमई उ चित्ताहिं ॥२३॥ व्याख्या-उद्यानं सहस्राम्रवनाख्यं सम्प्राप्तः, तत उत्तमायाः शिबिकाया उत्तीर्णः, प्रधाननृसहस्त्रेण सह परिवृत्तोऽथेत्यानन्तर्ये निःक्रामति श्रामण्यं प्रतिपद्यते । तुः पूत्तौं, चित्रासु चित्रानक्षत्रे ॥२३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy