SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३३८ श्रीउत्तराध्ययनदीपिकाटीका-२ अह सो तत्थ णिज्जंतो, दिस्स पाणे भयढुए । वाडेहिं पंजरेहिं च, संनिरुद्धे सुदुक्खिए ॥१४॥ व्याख्या-अथ स तत्र विवाहमण्डपासन्ने निर्यन् गच्छन् दृष्ट्वा प्राणान् प्राणिन् प्राणिनो मृगलावकान् भयगुतान् भयत्रस्तान् , वाटकैर्वृत्तिवरण्डादिवेष्टितभूदेशैः पञ्जरैश्च सन्निरुद्धान् गाढं नियन्त्रितान् , अत एव सुदुःखितान् ॥१४|| जीवियंतं तु संपत्ते, मंसट्ठा भक्खियव्वए । पासित्ता से महापन्ने, सारहिं इणमव्ववी ॥१५॥ व्याख्या-जीवितस्यान्तमिवान्तं तु सम्प्राप्तान् , तेषां मांसार्थं, मांसं पुष्टं स्यादिति वा मांसार्थं, भक्षितव्या एते मूखैरिति दृष्ट्वा हृदि निध्याय सोऽर्हन् , महती प्रज्ञा ज्ञानत्रयं यस्यासौ महाप्राज्ञः सारथिं प्रवर्तयितारं गन्धहस्तिनो हस्तिपकं प्रतीदं वक्ष्यमाणस्वरूपमब्रवीदकथयदिति ॥१५॥ कस्स अट्ठा इमे पाणा, एए सव्वे सुहेसिणो । वाडेहिं पंजरेहिं च, संनिरुद्धा य अच्छइ ॥१६॥ व्याख्या-हे सारथे ! इमे प्रत्यक्षं दृश्यमानाः सुखैषिणः सुखेच्छवोऽपि सर्वे प्राणाः प्राणिनो वाटकैश्च पुनः पञ्जरैः सन्निरुद्धा अत्यन्तं नियन्त्रिताः कस्यार्थं कस्य हेतोः 'अच्छइ' इति तिष्ठन्ति ! ज्ञानवतोऽपि प्रभोरिदं प्रश्नं दयाप्रकटीकरणार्थमेवेति ॥१६।। अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुब्भं विवाहकज्जंमि, भोयावेउं बहुं जणं ॥१७॥ व्याख्या-अथ सारथिस्ततो भणति, एते प्राणिनो भद्रा एव, न तु श्वशिवादिवत् क्रूराः, निरपराधा वा, भवतो विवाहकार्ये बहुजनं भोजयितुं सन्ति ॥१७|| सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने, साणुक्कोसे जिए हिओ ॥१८॥ व्याख्या-'से' इति स नेमिकुमारस्तस्य सारथेर्बहुप्राणिविनाशनं बहुजीवघातकवाच्ययुक्तं वचनं श्रुत्वा चिन्तयति, कीदृशः सः ? महाप्राज्ञो महाबुद्धिवान् पुनर्जीवे हितः प्राणिनां हितेच्छु:, पुनः सानुक्रोश सकरुणः ॥१८॥ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy